________________
१८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[क्षैरेयम्, क्षैरेयी यवागूः ] क्षीरे संस्कृतं भक्ष्यं = क्षैरेयम् । अनेन एयणप्र० → एय । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सि-अम् । अग्रेतने 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । यवागूः ॥छ।
दन इकण् ।। ६।२।१४३ ॥ [दनः ] दधि पञ्चमी ङसि । 'दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन्' (१।४।६३) अन् । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[इकण्] इकण् प्रथमा सि ।
[दाधिकम् ] दनि संस्कृतं = दाधिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
ननु च संस्कृतार्थे इकण वक्ष्यते, तेनैव सिद्धम् ? न सिध्यति । दना हि तत् संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम् । इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते ॥छ।।
वोदश्वितः ॥ ६।२।१४४ ॥ [वा] वा प्रथमा सि । [उदश्वितः] उदश्वित् पञ्चमी ङसि ।
[औदश्वितम् औदश्वित्कम् ] उदक 'ट्वोश्वि गति-वृद्ध्योः ' (९९७) श्चि । उदकेन वृद्धिं याति = उदश्वित् । क्विप्र० । अत एव निर्देशात् य्वृत् न भवति । 'इस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'नाम्न्युत्तरपदस्य च' (३।२।१०७) उदक० → उददेशः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । उदश्विति संस्कृतं भक्ष्यम् = औदश्वितम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० → अ । वृद्धिः औ । एवम् - औदश्वित्कम् । अनेन इकण्प्र० → इक । वृद्धिः औ । 'ऋवर्णोवर्ण०' (७।४।७१) इलोपः । सि-अम् ॥छ।।
क्वचित् ॥ ६।२।१४५ ॥ [क्वचित् ] क्वचित् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[चाक्षुष रूपम् ] चक्षुष् । चक्षुषा गृह्यते इति चाक्षुषम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । सि-अम् । रूपम् ।
[श्रावणः शब्दः ] श्रवणाभ्यां गृह्यत इति श्रावणः शब्दः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।८) अलोपः ।
[रासनो रसः] रसनया गृह्यत इति रासनो रसः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।८) आलुक् ।
[दार्षदाः सक्तवः ] दृषद् । दृषदि पिष्टाः = दार्षदाः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आर् । जस् । 'षचि-सेचने' (६४७) षच् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सच् । सच्यन्ते जलेन = सक्तवः । 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि-सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' (उणा० ७७३) तुन्प्र० → तु । 'च-जः क-गम्' (२।१।८६) च० → क० । जस् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [184]