________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१८३
__ [कार्परः] कर्परेषु उद्धृत ओदनः = कार्परः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
बहुवचनं पात्रविशेषपरिग्रहार्थम् ॥छा।
स्थण्डिलाच्छेते व्रती ॥ ६।२।१३९ ।।
[स्थण्डिलात् ] स्थण्डिल पञ्चमी ङसि ।
[शेते ] शेते सप्तमी ङि । सूत्रत्वात् डिलोपः ।
[व्रती] वतिन् प्रथमा सि । 'इन्-हन्०' (।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[स्थाण्डिलो भिक्षुः] स्थण्डिल एव शेते = स्थाण्डिलो भिक्षुः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।८) अलोपः ॥छ।।
संस्कृते भक्ष्ये ॥ ६।२।१४० ॥ [संस्कृते] संस्कृत सप्तमी ङि । [भक्ष्ये] भक्ष्य सप्तमी ङि ।
[भ्राष्ट्रा अपूपाः] भ्राष्ट्र संस्कृताः = भ्राष्ट्राः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । जस् । अपूप प्रथमा जस् ।
[कैलासा:(शाः)] किलाशायां संस्कृताः = कैलाशाः । किलाशी नाम मण्डकपालं पात्रं - ताविका वा । किलाश्यां वा संस्कृताः = कैलाशाः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आ-ईलुक् । जस् ।
[पात्राः] पात्रे संस्कृताः = पात्राः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ॥छ।।
शूलोखाद् यः ॥ ६।२।१४१ ॥ [शूलोखात् ] शूलश्च उखा च = शूलोखम्, तस्मात् = शूलोखात् । 'क्लीबे' (२।४।९७) ह्रस्वः । [यः] य प्रथमा सि । [शूल्यं मांसम् ] शूले संस्कृतं = शूल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सि-अम् । [उख्यम् ] उखायां संस्कृतम् = उख्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलोपः । सि-अम् ॥छ।।
क्षीरादेयण ॥ ६।२।१४२ ।।
[क्षीरात् ] क्षीर पञ्चमी ङसि ।
[ एयण् ] एयण् प्रथमा सि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [183]