________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
डिद् वाऽण् ।। ६।२।१३६ ।। [डित् ] ड् इदनुबन्धो यस्य सः = डित् । प्रथमा सि ।
[वा] वा प्रथमा सि । [अण्] अण् प्रथमा सि ।
[औशनम्, औशनसम्] 'वशक् कान्तौ' (११०१) वश् । वष्टि दानवाभिमुखम् = उशनाः । 'वष्टेः कनस्' (उणा० ९८५) किद् अनस्प्र० । 'वशेरयङि (४।१।८३) य्वृत् व० → उ० । 'उशनसा दृष्टं साम = औशनम्, औशनसम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अस्लुक् । सि-अम् ॥छ।।
वा जाते द्विः ।। ६।२।१३७ ।। [वा] वा प्रथमा सि । [जाते] जात सप्तमी ङि ।
[द्विः] द्वौ वारावस्येति द्विः । 'द्वि-त्रि-चतुरः सुच्' (७।२।११०) सुचप्र० । प्रथमा सि ।
[शातभिषः, शातभिषजः] शतं भिषजोऽस्याः सा = शतभिषक्, तया चन्द्रयुक्तया युक्तः कालोऽपि शतभिषक् । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । शतभिषजि जातः = शातभिषजः । 'जाते' (६।३।९८) इत्यनेन अण्प्राप्तः, तद्बाधकः 'वर्षा-कालेभ्यः' (६।३।८०) इति इकण, पुनस्तद्बाधकः, 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अज्लुक् ।
[ हैमवतः ] हिमवत् । हिमवति जातः = हैमवतः । 'जाते' (६।३।९८) अण्प्र० → अ । वृद्धिः ऐ ।
[औशं साम] उशनसा दृष्टं साम = औशनम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अस्लुक् । औशने जातः । 'जाते' (६।३।९८) इत्यणप्राप्तः, तद्बाधकः 'वर्षा-कालेभ्यः (६।३।८०) इति इकण् । पुनस्तद्बाधकः ‘भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । सि-अम् ॥छ।
तत्रोद्धते पात्रेभ्यः ।। ६।२।१३८ ॥ [तत्र ] तत्र पञ्चमी ङसि । सूत्रत्वाल्लुप् । [ उद्धृते ] उद्धृत सप्तमी ङि । [ पात्रेभ्यः] पात्र पञ्चमी भ्यस् । ‘एद् बहुस्भोसि' (१।४।४) एत् ।
[शारावः] शरावेषु उद्धृत ओदनः = शारावः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः ।
[माल्लकः] मल्लकेषु, मल्लकासु वा उद्धृत (ओदनः) = माल्लकः । अनेन विहितः 'प्राग् जितादण' (६।१।३) अण्प्र० → अ । 'जातिश्च णि तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [182]