________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१८१
[मायूरम् ] मयूरेण दृष्टं साम = मायूरम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[ तैत्तिरम् ] तित्तिरिणा दृष्टं साम = तैत्तिरम् । अनेन विहितः ‘प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।।
[वासिष्ठम् ] वसिष्ठेन दृष्टं साम = वासिष्ठम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[वैश्वामित्रम् ] विश्वामित्रेण दृष्टं साम = वैश्वामित्रम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[कालेयम्] कलिना दृष्टं साम = कालेयम् । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
[आग्नेयम् ] अग्निना दृष्टं साम । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । सि-अम् । एवंनामानि सामानि ॥छ।
गोत्रादङ्कवत् ॥ ६।२।१३४ ॥ [गोत्रात् ] गोत्र पञ्चमी ङसि । [अङ्कवत् ] अङ्के इव = अङ्कवत् । 'तत्र' (७।१।५३) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[औपगवकम् ] उप-गो । गोः समीपमुपगुः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । उपगोरपत्यमौपगवः । 'ङसोऽपत्ये' (६।२८) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७४|१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । औपगवेन दृष्टं साम = औपगवकम् । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वृद्धिः । सि-अम् ।
[कापटवकम् ] कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६०२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । कापटवेन दृष्टं साम = कापटवकम् । 'गोत्राददण्ड०' (६।३।१६९) अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वृद्धिः । सि-अम् ।।
[वाहतवकम्] वहतु । वहतोरपत्यं = वाहतवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । वाहतवेन दृष्टं साम = वाहतवकम् । 'गोत्राददण्ड०' (६।३।१६९) अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वृद्धिः । सि-अम् ॥छ।।
वामदेवाद् यः ॥ ६।२।१३५ ॥ [वामदेवात् ] वामं दीव्यतीति वामदेवः । 'अच्' (५।१।४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । तस्मात् ।
[यः] य प्रथमा सि ।
[वामदेव्यम् ] वामदेवेन दृष्टं साम = वामदेव्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छा।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [181]