________________
१७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अत्र] एतस्मिन्नत्र । 'सप्तम्याः' (७।२।९४) त्रप्र० →त्र । 'क्व-कुत्रा-ऽत्रेह' (७।२।९३) अत्र निपात्यते । प्रथमा सि ।
[एव] एव प्रथमा सि
स्वातन्त्र्यमिति वेत्त्यधीते वेत्यर्थरहितं न प्रयुज्यते इत्यर्थः । उपाध्यन्तरेति कठेन प्रोक्तं शोभनं वेदं विदन्त्यधीयते वा इति विशेषयोगो नेत्यर्थः ।।
[कठाः] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयअणो लुप् । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) इत्यनेन प्रथमस्याप्यणो लुप् । जस् ।
[कालापाः] कलापिन् । कलापिना प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयअणो लुप् । अस्य कलादित्वाभावात् प्रथमस्य न लुप् । जस् । कलापेन प्रोक्तं वेदं विदन्त्यधीयते वा = कालापाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण् । 'प्रोक्तात्' (६।२।१२९) द्वितीयअणो लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । जस् ।
[मौदाः] मौदेन प्रोक्तं वेदं विदन्त्यधीयते = मौदाः । 'मौदादिभ्यः' (६।३।१८२) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयअणो लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ।
[पैष्पलादाः] पिष्पलादस्यापत्यं = पैष्पलादः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । वृद्धिः ऐ । पैष्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा = पैष्पलादाः । 'मौदादिभ्यः' (६।३।१८२) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण् । 'प्रोक्तात्' (६।२।१२९) द्वि० अणो लुप् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । जस् ।
[आर्चाभिनः] ऋचाभेन प्रोक्तं ग्रन्थं विदन्त्यधीयते वा = आर्चाभिनः । 'शौनकादिभ्यो णिन्' (६।३।१८६) णिन्प्र० → इन् । 'तद् वेत्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ।
[वाजसनेयिनः] वाजसनाया अपत्यं = वाजसनेयः । 'झ्याप्त्यूङः' (६।१।७०) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । वाजसनेयेन प्रोक्तं वेदं विदन्त्यधीयते वा = वाजसनेयिनः । 'शौनकादिभ्यो णिन्'
३।१८६) णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ।
[ताण्डिनः] तण्डोऽस्यास्ति = तण्डी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । तण्डिनोऽपत्यं वृद्धं = ताण्ड्यः । 'गर्गादेर्यञ्' (६।१२४२) यप्र० → य । 'नोऽपदस्य तद्धिते' (७।४।६१) इन् - लोपः । ताण्ड्येन प्रोक्तं ब्राह्मणं नामेति ग्रन्थविशेषं विदन्त्यधीयते वा = ताण्डिनः । 'शौनकादिभ्यो णिन्' (६।३।१८६) णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'तद्धितयस्वरेऽनाति' (२।४।९३) यलुक् । जस् ।
[भाल्लविनः] भल्ल 'वांक गति-गन्धनयोः' (१०६३) वा । 'भल्लं वाति = भल्लवः । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । भल्लवस्यापत्यं = भाल्लविः । 'अत इब्' (६।१।३१) इप्र० → इ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । भाल्लविना प्रोक्तं ब्राह्मणं विदन्त्यधीयते
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [178]|