________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१७७
प्रोक्तात् ॥ ६।२।१२९ ॥
[प्रोक्तात् ] प्रोक्त पञ्चमी ङसि ।
[गौतमः ] गोतमेन प्रोक्तं = गौतमम् । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलोप: । गौतमं वेत्त्यधीते वा = गौतमः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[सौधर्मः] सुधर्मेण प्रोक्तं = सौधर्मम् । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सौधर्मं वेत्त्यधीते वा = सौधर्मः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[सौधर्मणः] शोभनो धर्मोऽस्य सः = सुधर्मा । 'द्विपदाद् धर्मादन्' (७।३।१४१) अन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सुधर्मणा प्रोक्तं = सौधर्मणम् । मतान्तरे 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः औ । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण० । सौधर्माणं वेत्त्यधीते वा = सौधर्मणः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[भाद्रबाहवः ] भद्रबाहुणा प्रोक्तं = भाद्रबाहवम् । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । भाद्रबाहवं वेत्त्यधीते वा = भाद्रबाहवः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[पाणिनीयः] पाणिनिना प्रोक्तं = पाणिनीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'समानानां०' (१।२।१) दीर्घः । पाणिनीयं वेत्त्यधीते वा = पाणिनीयः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । __ [आपिशलः] आपिशलस्यापत्यं वृद्धम् = आपिशलि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । आपिशलिना प्रोक्तम् = आपिशलम् । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोप: । आपिशलं वेत्त्यधीते वा = आपिशलः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[गौतमा ] गो 'तमच काक्षायाम' (१२३२) तम् । गास्ताम्यति = गोतमः । 'कर्मणोऽण' (५।१७२) अणप्र० । गोतमेन प्रोक्ता । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण' (२।४।२०) ङी । गौतमीमधीते । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । 'ङ्यादेhणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[सौधर्मा] सुधर्मेण प्रोक्ता । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः औ । 'अणजेयेकण्' (२।४।२०) ङी । सौधर्मीमधीते । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । 'झ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) ङीनिवृत्तिः । 'आत्' (२।४।१८) आप्प्र० → आ । 'समानानां०' (१।२।१) दीर्घः ।
[सौधर्मणा] सुधर्मणा प्रोक्ता । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः औ । 'अणजेयेकण्०' (२।४।२०) ङी । सौधर्मणीमधीते । 'तद् वेत्त्यधीते' (६।२।११७) अणप्र० । अनेन लुप् । 'यादेर्गौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । 'आत्' (२।४।१८) आप्प्र० → आ । 'समानानां०' (१।२।१) दीर्घः ॥छ।।
वेदेनब्राह्मणमत्रैव ।। ६।२।१३० ॥
[ वेदेन्ब्राह्मणम् ] इन् च तद् ब्राह्मणं च = इन्ब्राह्मणम् । वि(वे)दश्च इन्ब्राह्मणं च = वेदेन्ब्राह्मणम् । प्रथमा सि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [177]|