________________
१७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
अष्टकाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । जस् । 'पणि व्यवहार-स्तुत्योः ' (७१०) पण् । पणनं = पणः । 'पणेर्माने' (५।३।३२) अल्प्र० → अ । पणोऽस्यास्तीति पणी । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलोपः । पणिनोऽपत्यं वृद्धं = पाणिनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'गाथि-विदथि-केशि-पणि-गणिनः' (७४।५४) इन्लोपाभावः । पाणिनस्यापत्यं युवा' = पाणिनि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पाणिनेरिमे च्छात्राः = पाणिनीयाः । 'दोरीयः' (६।३।३२) ईयप्रत्ययविषये 'यूनि लुप्' (६।१।१३७) इञ्लुप्, ततो 'दोरीयः' (६।३।३२) ईयप्र० ।
अपिशलस्यापत्यमनन्तरम् = आपिशलि(:) । 'अत इञ्' (६।१।३१) इप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । आपिशलेरिमे च्छात्राः = आपिशलीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'समानानां०' (१२।१) दीर्घः । पाणिनीयाश्च आपिशलीयाश्च = पाणिनीयापिशलीयाः । जस् ।
[त्रिकाः काशकृत्स्नाः ] त्रि । त्रयोऽध्यायाः परिमाणमस्य = त्रिकम् । 'संख्याडते.' (६।४।१३०) कप्र० । ('संख्यायाः सङ्घ०' (६।४।१७१) कप्र०) । त्रिकं सूत्रं वेत्त्यधीते वा = त्रिकाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । कश 'कृतैत् छेदने' (१३२५) कृत् । कशं कृन्तति = कशकृत्स्नः । 'कृत्यशौभ्यां स्नक्' (उणा० २९४) स्नक्प्र० । कशकृत्स्नस्येमे च्छात्राः । 'दोरीयः' (६।३।३२) ईयप्र० । अनेन लुप् ।।
[दशका उमास्वातीयाः] दशन् । दश अध्याया मानमस्य = दशकम् । 'अवयवात् तयट्' (७।१।१५१) बाधकः 'संख्या-डते०' (६।४।१३०) कप्र० । ('संख्यायाः सङ्घ०' (६।४।१७१) कप्र०) । दशकं विदन्त्यधीयते वा = दशकाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । जस् । उमा-सु 'अत सातत्यगमने' (२७९) अत् । उमां-कीर्ति सुष्ठ अतति = उमास्वातिः । ‘पादाच्चात्यजिभ्याम्' (उणा० ६२०) णिद् इप्र० निपात्यते । उमास्वातेरिमे च्छात्राः = उमास्वातीयाः । 'दोरीयः' (६।३।२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । जस् ।
[द्वादशका आर्हताः] द्वादश । द्वादशाङ्गानि मानमस्य = द्वादशकम् । 'संख्याडतेश्चाऽशत्०' (६।४।१३०) कप्र० । ('संख्यायाः सङ्घ०' (६।४।१७१) कप्र०) । द्वादशकं-प्रवचनं तद् विदन्त्यधीयते वा = द्वादशकाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् । जस् । अर्हत् । अर्हन् देवता एषां ते = आर्हताः । 'देवता' (६।२।१०१) अण्प्र०
→ अ । वृद्धिः । जस् । ___ [माहावार्त्तिकाः] महद् वार्तिकमस्य सूत्रस्य = महावार्तिकम् । 'जातीयैकार्थेऽच्चे:' (३।२।७०) डा । 'डित्यन्त्यस्वरादेः' (२।१२११४) अत्लोपः । महावार्तिकं विदन्त्यधीयते वा = माहावार्त्तिकाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । जस् ।
[कालापकाः] 'कल क्षेपे' (१६९६) कल । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'अतः' (४।३।८२) अलोपः । कल्यन्ते विविधवर्णा अत्र । 'कलेरापः' (उणा० ३०८) आपप्र० । कलापोऽस्यास्ति = कलापी । 'अतोऽनेकस्वरात्' (७।२।६), इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कलापिना प्रोक्तम् । 'तेन प्रोक्ते (६।३।१८१) अण्प्र० → अ । वृद्धिः । 'कलापि-कुथुमि-तैतलि-जाजलि०' (७।४।६२) अन्त्यस्वरादिलोपः । कुत्सितोऽल्पोऽज्ञातो वा कालापः = क(का)लापकः । 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७।३।३३) कप्र० । करका)लापकं विदन्त्यधीयते वा = कालापका: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । जस् ।
- [चातुष्टयाः] चतुर् । चत्वारोऽवयवा यस्य तत् = चतुष्टयम् । 'अवयवात् तयट्' (७।१।१५१) तयटप्र० → तय । 'च-ट-ते सद्वितीये' (१।३।७) र० → स० । 'हस्वान्नाम्नस्ति' (२।३।३४) स० → ष० । 'तवर्गस्य०' (१।३।६०) त० → ट० । चतुष्टयं सूत्रमधीयते = चातुष्टयाः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । वृद्धिः । जस् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [176]