________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१७५
[उपनिषदकः] उपनिषदं वेत्त्यधीते वा = उपनिषदकः । मतान्तरेऽनेन अकप्र० । अकमपनीय क इति कृते
[शिक्षाका, शिक्षिका, शिक्षका] शिक्षैव = शिक्षाका । स्वार्थे कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'इच्चाऽपुंसोऽनित्क्याप्परे' (२।४।१०७) इकारो हुस्वश्च विकल्पेन ।
[मीमांसाका, मीमांसिका, मीमांसका] मीमांसैव = मीमांसाका, मीमांसिका, मीमांसका । स्वार्थे कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'इच्चाऽपुंसोऽनित्यक्याप्परे' (२।४।१०७) इकारो इस्वश्च विकल्पेन । कप्रत्ययबाधनार्थमे( म )कवचनम् ॥छ।।
स-सर्वपूर्वाल्लुप् ॥ ६।२।१२७ ।। [ससर्वपूर्वाल्लुप्] सश्च सर्वश्च = ससौ, ससर्ती पूर्वी यस्य तत् = ससर्वपूर्वम्, तस्मात् । लुप् प्रथमा सि । 'धुटस्तृतीयः' (२।१७६) त० → द० । 'लि लौ' (१।३।६५) द० → ल० ।
[सवार्तिकः] वृत्ति । वृत्तिरेव = वार्तिकम् । 'विनयादिभ्यः' (७।२।१६९) इकण्प्र० , इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आर् । सह वार्तिकेन वर्त्तते = सवार्तिकम् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सह० → सभावः । सवात्तिकं वेत्त्यधीते वा = सवार्तिकः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[ससंग्रहः ] सह संग्रहेण वर्त्तते = ससंग्रहः । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सह → सभावः । ससंग्रहं वेत्त्यधीते वा = ससंग्रहः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[सकल्पः] सह कल्पेन वर्त्तते = सकल्पः । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सभावः । सकल्पं वेत्त्यधीते वा = सकल्पः । ‘पद-कल्प-लक्षणान्त-क्रत्वाख्यानाऽऽख्यायिकात्' (६।२।११९) इकण्प्र० । अनेन लुप् ।
[सर्ववेदः] सर्वे च ते वेदाश्च = सर्ववेदाः, तान् वेत्त्यधीते वा = सर्ववेदः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[सर्वतन्त्रः] सर्वाणि च (तानि) तन्त्राणि च = सर्वतन्त्राणि, सर्वतन्त्राणि वेत्त्यधीते वा = सर्वतन्त्रः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[सर्वविद्यः] सर्वविद्यां वेत्त्यधीते वा = सर्वविद्यः । 'अधर्म-क्षत्र-त्रि-संसर्गा-ऽङ्गाद् विद्यायाः' (६।२।१२१) इकण्प्र० । अनेन लुप् ।
[द्विवेदः] द्वौ वेदौ अधीते = द्विवेदः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[पञ्चव्याकरणः] पञ्चव्याकरणानि वेत्त्यधीते वा = पञ्चव्याकरणः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
संख्याकात् सूत्रे ॥ ६।२।१२८ ॥ [संख्याकात् ] संख्यायाः कः = संख्याकस्तस्मात् । [ सूत्रे ] सूत्र सप्तमी ङि।
[अष्टकाः पाणिनीयाः, आपिशलीयाः] अष्टन् । अष्टावध्यायाः परिमाणमस्य तत् = अष्टकम् । 'संख्याडतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । ('संख्यायाः सङ्घ' (६।४।१७१) कप्र०) । अष्टकं सूत्रं विदन्त्यधीयते वा =
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [175]