________________
१७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
ङ्यां लुक्' (२।४।८६) अलुक् । यद्वा शतं पन्थानोऽस्य सः = शतपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७३।७६) अत् - समासान्तः → अ । शतपथं वेत्त्यधीते वा = शतपथिकी । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । 'अणजेयेकण्' (२।४।२०) ङी ।
[षष्टिपथिकः, षष्टिपथिकी] षष्टि-पथिन् मांडणीयइ । षष्टि(:) पन्थानोऽस्य सः = षष्टिपथः । 'ऋक्-पू:पथ्यपोऽत्' (७३।७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) इन्लोप: । षष्टिपथान् वेत्त्यधीते वा = षष्टिपथिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६१) अलोपः । यद्वा षष्टिः संख्याः पन्थानः = षष्टिपथा:(थः) । 'ऋक्-पू: पथ्यपोऽत्' (७।३।७६) अत्समासान्तः । षष्टिपथान् वेत्त्यधीते वा = षष्टिपथिकी । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलोप: । 'अणजेयेकण्' (२।४।२०) ङी ॥छ।।
पदोत्तरपदेभ्य इकः ॥ ६।२।१२५ ॥ [पदोत्तरपदेभ्यः] पदोत्तरपदश्च पदश्च पदोत्तरपदश्च = पदोत्तरपदास्तेभ्यः । सूत्रत्वात् पद-पदोत्तरपदस्य लोपः । पञ्चमी भ्यस् ।
[इकः] इक प्रथमा सि ।
[पूर्वपदिकः, पूर्वपदिका] पूर्वं च तत् पदं च = पूर्वपदम् । पूर्वपदं वेत्त्यधीते वा = पूर्वपदिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये उदाहरणे 'आत्' (२।४।१८) आप्प्र० → आ ।
[उत्तरपदिकः, उत्तरपदिका] उत्तरं च तत् पदं च = उत्तरपदम् । उत्तरपदं वेत्त्यधीते वा = उत्तरपदिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये उदाहरणे 'आत्' (२।४।१८) आप्प्र० → आ ।
[पदिकः, पदिका] पदं वेत्त्यधीते वा = पदिकः, पदिका । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । द्वितीये उदाहरणे 'आत्' (२।४।१८) आप्प्र० → आ ।
[पदोत्तरपदिकः, पदोत्तरपदिका] पदोत्तरपदं वेत्त्यधीते वा = पदोत्तरपदिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । द्वितीये उदाहरणे 'आत्' (२।४।१८) आप्प्र० → आ । बहुवचनं सर्वभङपरिहारार्थम् ॥छ।।
पद-क्रम-शिक्षा-मीमांसा-साम्नोऽकः ॥ ६।२।१२६ ॥ [पदक्रमशिक्षामीमांसासाम्नः] पदश्च (पदं च) क्रमश्च शिक्षा च मीमांसा च साम च = पदक्रमशिक्षामीमांसासाम, तस्मात् = पदक्रमशिक्षामीमांसासाम्नः । 'अनोऽस्य' (२।१।१०८) अलोपः ।
[अकः] अक प्रथमा सि ।। [पदकः] पदं वेत्त्यधीते वा = पदकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । [क्रमकः] क्रमं वेत्त्यधीते वा = क्रमकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । [शिक्षकः] शिक्षां वेत्त्यधीते वा = शिक्षकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [मीमांसकः] मीमांसां वेत्त्यधीते वा = मीमांसकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । [सामकः ] साम वेत्त्यधीते वा = सामकः । अनेन अकप्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । उपनिषच्छब्दादपीच्छति कश्चित्-विश्रान्तविद्याधरः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [174]