________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१७३
(६।३।१६६) ज्यप्र० → य । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा = याज्ञिकः । अनेन इकणन्तो याज्ञिक इति निपात्यते ।
[औक्थिकः] उक्थ । उक्थं वेत्त्यधीते वा = औक्थिकः । अनेन इकणप्र० । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । औक्थिक्यशब्दात्तु प्रत्ययो न भवत्यनभिधानात् । औक्थिकानामाम्नायः = औक्थिक्यः । 'छान्दोगौक्थिकयाज्ञिक०' (६।३।१६६) ज्यप्र० → य । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । औक्थिक्यमधीते = औक्थिकः । मतान्तरेऽनेन इकणन्त औक्थिकनिपात्यते ।
[लोकायितिकः] लोके आयतं = लोकायतम्, तद् वेत्त्यधीते वा = लौकायितिकः । अनेन इकणप्र० । वृद्धिः औ । यकाराकारस्य च इकारो निपात्यते । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
जलौकायतिकम् ] लोकायतं वेत्त्यधीते वा = लौकायतिकम् । 'न्यायादेरिकण' (६।२।११८) इकण्प्र० → इक । वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
अनुब्राह्मणादिन् । ६।२।१२३ ॥ [अनुब्राह्मणात् ] अनुब्राह्मण पञ्चमी ङसि । [इन् ] इन् प्रथमा सि ।
[अनुब्राह्मणी ] ब्रह्मन् । ब्रह्मणा प्रोक्तो ग्रन्थः = ब्राह्मणम् । तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० । अत एव निर्देशात् 'ब्रह्मणः' (७४/५७) इत्यनेन नान्त्यस्वरादिलोपः । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृगर्थे 'विभक्ति-समीप-समृद्धि-व्यृद्ध्यर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्-क्रम-ख्यातियुगपत्-सदृक्-सम्पत्-साकल्या-ऽन्तेऽव्ययम्' (३।१।३९) इत्यादिना समासः । अनुब्राह्मणं वेत्त्यधीते वा = अनुब्राह्मणी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'इन्-हन्०' (१।४।८७) दीर्घः । 'दीर्घयाब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[अनुब्राह्मणिनौ] अनुब्राह्मणं वित्तः अधीये(या)ते वा = अनुब्राह्मणिनौ । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । औ ।
[अनुब्राह्मणिनः] अनुब्राह्मणं विदन्त्यधीयन्ते(ते) वा = अनुब्राह्मणिनः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् ॥छ।।
शत-षष्टेः पथ इकट् ॥ ६।२।१२४ ॥ [शतषष्टेः ] शतं च षष्टिश्च = शतषष्टि, तस्मात् । [ पथः] पथिन् पञ्चमी ङसि । 'इन् ङी-स्वरे लुक्' (१।४।७९) इन्लुक् । [इकट् ] इकट् प्रथमा सि ।
[शतपथिकः, शतपथिकी ] शत-पथिन् मांडणीयइ । शतं संख्याः पन्थानोऽस्य सः = शतपथः । 'ऋक्-पू:पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लोपः । शतपथान् वेत्त्यधीते वा = शतपथिकः । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य
卐 बृहद्वृत्तौ - हैमप्रकाशे च-लौकायतिका ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [173]