________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[वास्तोष्पतीयम्, वास्तोष्पत्यम् ] वास्तोष्पतिर्देवता अस्य = वास्तोष्पतीयम्, वास्तोष्पत्यम् । अनेन ईय - यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि - अम् ।।
[गृहमेधीयम्, गृहमेध्यम् ] गृहं मेधते = गृहमेधा । 'कर्मणोऽण' (५।१७२) अण्प्र० → अ । यद्वा गृहं च मेधा च = गृहमेधे, ते देवता अस्य तत् । गृहमेधो देवता अस्य तत् = गृहमेधीयम्, गृहमेध्यम् । अनेन ईय - यप्रत्ययश्च । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । सि - अम् ॥छ।।
वाय्वृतु - पित्रुषसो यः ॥ ६।२।१०९ ॥ [ वाय्वृतुपित्रुषसः] वायुश्व ऋतुश्च पिता च उषस् च (उषश्च) = वाय्वृतुपित्रुषस्, तस्मात् । [यः] य प्रथमा सि । [वायव्यम् ] वायुर्देवता अस्य = वायव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि - अम् । [ऋतव्यम् ] ऋतुर्देवता अस्य = ऋतव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि - अम् । [पित्र्यम् ] पितृ । पिता देवता अस्य = पित्र्यम् । अनेन यप्र० । 'ऋतोरस्तद्धिते' (१।२।२६) रत्वम् । सि - अम् ।
[ उषस्यम् ] 'उषू दाहे' (५२९) उष् । ओषति अशिवमाराधिता = उषस् । 'मिथि-रज्युषि - तृ - पृ - शृ - भू - वष्टिभ्यः कित्' (उणा० ९७१) किद् अस्प्र० । उषस्शब्दः संध्यावाची स्त्री - क्लीबलिङ्गः । प्रभातवाची नपुंसकः । उषा देवता अस्य तत् = उषस्यम् । अनेन यप्र० । सि - अम् ॥छ।।
महाराज - प्रोष्ठपदादिकण् ॥ ६।२।११० ॥ [ महाराजप्रोष्ठपदात् ] महाराजश्च प्रोष्ठपदश्च = महाराजप्रोष्ठपदम्, तस्मात् । [इकण्] इकण् प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
[माहाराजिकः, माहाराजिकी ] महत् - राजन् । महांश्चासौ राजा च = महाराजः । 'राजन् - सखेः' (७३।१०६) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । जातीर्येकार्थेऽच्चे: (३।२।७०) डा० । 'डित्यन्त्य०' (२।१।११४) अत्लोपः । महाराजो देवता अस्य सः = माहाराजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । द्वितीये 'अणजेयेकण्o' (२।४।२०) ङी ।
[प्रौष्ठपदिकः, प्रौष्ठपदिकी] प्रोष्ठो-गौस्तस्येव पादौ यस्य सः = प्रौष्ठपदः । 'सुप्रात - सुश्व - सुदिव - शारिकुक्ष - चतुरस्त्रैणीपदा - ऽजपद - प्रोष्ठपद - भद्रपदम्' (७।३।१२९) इत्यादिना प्रोष्ठपदनिपात्यते । प्रोष्ठपदो देवता अस्य सः = प्रौष्ठपदिकः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१) । सूत्र (१६)) इति न्यायात् स्त्रीलिङ्गोऽपि नक्षत्रवाची प्रोष्ठपदाशब्दो ग्राह्यः । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
कालाद् भववत् ॥ ६।२।१११ ॥ [ कालात् ] काल पञ्चमी ङसि । [भववत् ] भवे इव = भववत् । 'तत्र' (७।१।५३) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [165]