________________
१६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[महेन्द्रीयम्, महेन्द्रियम्, माहेन्द्रं हविः] महत् - इन्द्र । महांश्चासाविन्द्रश्च = महेन्द्रः । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लोपः । महेन्द्रो देवता यस्य तत् = महेन्द्रीयम्, महेन्द्रियम् । अनेन ईय - इयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । पक्षे-'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ॥छ।।
क - सोमात् ट्यण ॥ ६।२।१०७ ॥ [कसोमात् ] कश्च सोमश्च = कसोमम्, तस्मात् । [ट्यण् ] ट्यण् प्रथमा सि ।।
[कायं हविः, कायी इष्टिः] 'कैं शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य' (४।२।१) का । कायति - शब्दोच्चारं करोति = कः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । कः - प्रजापतिः - देवता अस्य = कायं हविः, कायी । अनेन ट्यणप्र० → य । ‘वृद्धिः स्वरे०' (७।४।१) वृद्धिः । सि - अम् । 'अणजेयेकण' (२।४।२०) ङी । य(इ)ष्टिः ।
कशब्दं प्रति णित्त्वस्य वैयदिालोपो न भवति ।
[सौम्यं हविः, सौम्यं सूक्तम्, सौमी ऋक् ] 'पुंग्ट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै - ष्ठिव - ष्वष्कः' (२।३।९८) सु । सुनोतीति । 'अर्तीरि - स्तु - सु - हु - सृ - घृ - धृ - शृ - क्षि - यक्षि - भा - वा - व्या - धा - पा - या - वलि - पदिनीभ्यो मः' (उणा० ३३८) मप्र० - सोमनिपातः । सोमो देवता अस्य तत् = सौम्यम् । अनेन ट्यणप्र० → य । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि - अम् । हविः सूक्तं वा । सौम्य 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । ऋक् प्रथमा सि ॥छ।।
द्यावापृथिवी-शुनासीरा-ऽग्नीषोम-मरुत्वद्-वास्तोष्पति-गृहमेधादीय-यौ ॥ ६।२।१०८ ॥ [द्यावापृथिवीशुनासीराऽग्नीषोममरुत्ववास्तोष्पतिगृहमेधात् ] द्यावापृथिवी च शुनासीरश्च अग्नीषोमश्च मरुत्वांश्च वास्तोष्पतिश्च गृहमेधा च = द्यावापृथिवीशुनासीराऽग्नीषोममरुत्ववास्तोष्पतिगृहमेधम्, तस्मात् ।
[ईययौ ] ईयश्च यश्च = ईययौ ।
[द्यावापृथिवीयं हविः, द्यावापृथिव्यम् ] दिव - पृथिवी । द्यो(द्यौ)श्च पृथिवी च = द्यावापृथिवी(व्यौ) । 'दिवो द्यावा' (३।२।४४) द्यावादेशः । द्यावापृथिव्यौ देवते यस्य तत् = द्यावापृथिवीयम्, द्यावापृथिव्यम् । अनेन ईय - यप्र० । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । सि - अम् ।
[शुनासीरीयम्, शुनासीर्यम् ] शुनश्च वायुः, सीरश्च आदित्यः = शुनासीरौ । 'वेदसहश्रुताऽवायुदेवतानाम्' (३।२।४१) आकारः । शुनासीरौ देवते यस्य तत् = शुनासीरीयम्, शुनासीर्यम् । अनेन ईय - यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ।
[अग्नीषोमीयम्, अग्नीषोम्यम् ] अग्निश्च सोमश्च = अग्नीषोमौ । 'ई: षोम -वरुणेऽग्नेः' (३।२।४२) ईत्वम् - षत्वम् । अग्नीषोमौ देवते यस्य तत् = अग्नीषोमीयम्, अग्नीषोम्यम् । अनेन ईय - यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि - अम् ।
[मरुत्वतीयम्, मरुत्वत्यम् ] मरुत्वत् । मरुत्वान् देवता अस्य तत् = मरुत्वतीयम्, मरुत्वत्यम् । अनेन ईय - यप्र० । पदसंज्ञाऽभावात् दो न भवति । पदत्वमपि कृतो न भवति ? सित्येवेति नियमात् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [164]