________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१६३
शुक्रादियः ॥ ६।२।१०३ ॥ [शुक्रात्] शुक्र पञ्चमी ङसि । [इयः] इय प्रथमा सि ।
[शुक्रियं हविः ] शुक्रो देवता अस्य तत् = शुक्रियम् । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ।
[शुक्रियोऽध्यायः] शुक्रो देवता अस्य सः = शुक्रियः । अनेन इयप्र० । 'अवर्णेवर्णस्य (७।४।६८) अलुक् । अध्यायः ॥छ।।
शतरुद्रात् तौ ॥ ६।२।१०४ ॥ [शतरुद्रात् ] शतरुद्र पञ्चमी ङसि ।
[तौ] तद् । प्र० औ । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ ।
[शतरुद्रीयम्, शतरुद्रियम् ] शतं संख्या येषां ते = शतसंख्या(:) । शतसंख्या रुद्रा = शतरुद्रास्ते देवता अस्य तत् = शतरुद्रीयम्, शतरुद्रियम् । अनेन ईय - इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शतं रुद्रा देवता अस्येति द्विगावपि विधानसामर्थ्याद् लुब् न भवति ॥छ।।
अपोनपादपान्नपातस्तृ चातः ॥ ६।२।१०५ ।। [अपोनपादपान्नपातः ] अपोनपाच्च अपान(न्न)पाच्च = अपोनपादपान्नपात्, तस्मात् । [४] तृ प्रथमा सि । सूत्रत्वात् लुप् । [च ] च प्रथमा सि । [आतः] आत् षष्ठी ङस् ।
[अपोनप्त्रीयम्, अपोनप्नियम् ] अपकृष्टे(ष्ट)मूनं यस्य तत् = अपोनम् । 'पत्लु गतौ' (९६२) पत् । अपोनं पतत्(पतन्तं) प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिग्प्र० । 'ञ्णिति' (८।३।५०) उपान्त्यवृद्धिः । अपोनं पातयतीति अपोनपात् । क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । अपोनपात् देवता यस्य तत् = अपोनवीयम् । अनेन ईयप्र० - आत्स्थाने तृदेशः । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । सि - अम् । एवम् - अपोनप्तियम् । अनेन इयप्र० - आत्स्थाने तृदेशः । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । सि - अम् ॥छ।। [अपान्नप्त्रीयम्, अपानस्त्रियम् ] अपकृष्टमन्नमपान्नम् । 'पत्लु गतौ' (९६२) पत् । अपान्नं पातयतीति =
क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । अपान्नपात् देवता अस्य तत् = अपान्नज़ीयम्, अपान्नज़ियम् । अनेन ईय - इयप्र० - आत्स्थाने तृदेशः । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । सि - अम् ॥छ।।
महेन्द्राद् वा ।। ६।२।१०६ ॥
[महेन्द्रात् ] महेन्द्र पञ्चमी ङसि । [वा] वा प्रथमा सि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [163]