________________
१६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ऐन्द्रं हविः] इन्द्रो देवता अस्य = ऐन्द्रम् । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ऐन्द्रः पुरोडाशः] इन्द्रो देवता अस्य = ऐन्द्रः । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वारुणश्चरुः] वरुण । वरुणो देवता अस्य = वारुणः । अनेन अण्प्र० → अ । वृद्धि आ । चरुः ।
[आदित्यः] आ(अ)दिति । आ(अ)दितिर्देवता अस्य । 'अनिदम्यणपवादे च दित्यदित्यादित्य - यम - पत्युत्तरपदाञ्यः (६।१।१५) ज्यप्र० → य । 'अवर्णेवर्णस्य' (७४।६८) इलोपः । वृद्धिः । 'अञ्वर्गस्यान्तस्थातः' (१।३।३३) द्वित्वम् ।
[बार्हस्पत्यः] बृहस्पति । बृहस्पतिर्देवता अस्य सः = बार्हस्पत्यः । 'अनिदम्यणपवादे च दित्यदित्यादित्य - यम - पत्युत्तरपदाञ्यः ' (६।१।१५) ज्यप्र० → य । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[गव्यम् ] गो । गौर्देवता यस्य = गव्यम् । 'गोः स्वरे यः' (६।१२७) यप्र० । 'य्यक्ये' (१।२।२५) अव् ।
[द्वीन्द्रम् ] द्वि - इन्द्र । द्वौ इन्द्रौ देवते अस्य हविषः = द्वीन्द्रम् । अनेन अण्प्र० → अ । 'द्विगोरनपत्ये य - स्वराऽऽदेर्लुबद्विः' (६।१।२४) अण्लुप् । उभयत्र सि - अम् ॥छ।।
पैङ्गाक्षीपुत्रादेरीयः ॥ ६।२।१०२ ।। [पैङ्गाक्षीपुत्रादेः] पैङ्गाक्षीपुत्र आदिर्यस्य सः = पैङ्गाक्षीपुत्रादिः, तस्मात् । [ईयः] ईय प्रथमा सि ।
[पैङ्गाक्षीपुत्रीयं हविः ] पिङ्ग - अक्षिन् । पिङ्गोऽक्षिणी यस्य सः = पिङ्गाक्षः । 'सक्थ्यक्ष्णः स्वाङ्गे' (७।३।१२६) ट: समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लोपः । पिङ्गाक्षस्यापत्यमनन्तरं स्त्री = पैङ्गाक्षी । 'अत इब्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । 'नर्जातेः' (२।४।७२) ङी । 'समानानां०' (१।२।१) दीर्घः । पैङ्गाक्ष्याः पुत्रः = पैङ्गाक्षीपुत्रः ।।
यद्वा पिङ्गाक्षस्यापत्यं वृद्धं स्त्री = पैङ्गाक्षी(क्षा) । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अनार्षे वृद्धेऽणिजो बहुस्वर - गुरूपान्त्यस्याऽन्तस्य ष्यः' (२।४।७८) इस्थाने ष्य० । 'आत्' (२।४।१८) आप्प्र० → आ । तस्याः पुत्रः = पैङ्गाक्षीपुत्रः । 'ष्या पुत्र - पत्योः केवलयोरीच् तत्पुरुषे' (२।४।८३) इत्यादिना ष्यास्थाने ईच्देश: → ई । पैङ्गाक्षीपुत्रो देवता अस्य तत् = पैङ्गाक्षीपुत्रीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि - अम् । हविस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[तार्णबिन्दवीयं हविः] तृणबिन्दु मांडणी । तृणे बिन्दवः पेया यस्य सः = तृणबिन्दुः । तृणबिन्दोरपत्यं = तार्णबिन्दवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । तार्णबिन्दवो देवता अस्य तत् = तार्णबिन्दवीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ।
[पैङ्गीपुत्रीयम् ] पिङ्गस्यापत्यं = पैङ्गी । 'अत इब्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'नुर्जातेः' (२।४।७२) ङी । पैङ्ग्याः पुत्रः = पैङ्गीपुत्रः । पैङ्गीपुत्रो देवता अस्य तत् = पैङ्गीपुत्रीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [162]