________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[ आग्रहायणी मार्गशीर्षी ] आग्रहायणी मार्गशीर्षी - पूर्णमासी नाम ।
[ अश्वत्था आश्वयुजी] अश्वत्था आश्वयुजी - पौर्णमासी नाम ॥छ।।
चैत्री - कार्तिकी - फाल्गुनी - श्रवणाद् वा ॥ ६।२।१०० ॥ [चैत्रीकार्तिकीफाल्गुनीश्रवणात् ] चैत्री च कार्तिकी च फाल्गुनी च श्रवणा च = चैत्रीकार्तिकीफाल्गुनीश्रवणम् । 'क्लीबे' (२।४।९७) इस्वः । तस्मात् ।
[वा] वा प्रथमा सि ।
[चैत्रिकः चैत्रो वा मासोऽर्द्धमासो वा] चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी = चैत्री । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । चैत्री पौर्णमासी अस्य सः = चैत्रिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । एवम् - चैत्री पौर्णमासी यस्य सः = चैत्रः । 'साऽस्य पौर्णमासी' (६।२।९८) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । मासोऽर्द्धमासो वा ।।
[कार्तिकिकः, कार्तिकः] कृत्तिकाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी = कार्तिकी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् । 'अणजेयेकण्' (२।४।२०) ङी । कार्तिकी पौर्णमासी यस्य सः = कार्तिकिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । एवम् - कार्तिकः । 'साऽस्य पौर्णमासी' (६।२।९८) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[फाल्गुनिकः, फाल्गुनः] फल्गुनी । फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी = फाल्गुनी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । फाल्गुनी पौर्णमासी यस्य सः = फाल्गुनिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । एवम् - फाल्गुनः । 'साऽस्य पौर्णमासी' (६।२।९८) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । फल्गुन 'गौरादिभ्यो मुरव्यान्डीः ' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[श्रावणिकः, श्रावणः] श्रवण । श्रवणेन चन्द्रक्तेन युक्ता पौर्णमासी = श्रवणा । 'श्रवणा - ऽश्वत्थान्नाम्न्यः' (६।२।८) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । श्रवणा पौर्णमासी यस्य सः = श्रावणिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम् - श्रावणः । 'साऽस्य पौर्णमासी' (६।२।९८) अण्प्र० → अ ॥छ।।
देवता ।। ६।२।१०१ ।। [ देवता] देवता प्रथमा सि । 'दीर्घझ्याब्०' (१।४।४५) सिलुक् । [आर्हतः] अर्हत् । अर्हन् देवता अस्य सः = आर्हतः । अनेन अण्प्र० → अ । वृद्धिः ।।
[जैनः] जिनो देवता अस्य सः = जैनः । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आग्नेयो ब्राह्मणः] अग्निर्देवता अस्य सः = आग्नेयः । अनेन 'कल्यग्ने०' (६।१।१७) एयणप्र० → एय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । ब्राह्मणः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [161]