________________
१६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । पौषी पौर्णमासी अस्य सः = पौषः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० । 'अवर्णेवर्णस्य' (७४/६८) ईलोपः ।।
[ पौषोऽर्द्धमासः] पुष्येण चन्द्रयुक्तेन युक्ता पौर्णमासी = पौषी । शेषं पूर्ववत् । पौषी पौर्णमासी अस्य सः = पौषः । अनेन विहितः 'प्राग् जितादण' (६०१३) अण्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः । अर्द्धमासः ।
[माघः] मघाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी = माघी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'अणजेयेकण्' (२४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । माघी पौर्णमासी अस्य = माघः । अनेन विहितः 'प्राग जितादण्' (६।१।१३) अण्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[वैशाखः] विशाखाभिश्चन्द्रक्ताभिर्युक्ता पौर्णमासी = वैशाखी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । वैशाखी पौर्णमासी अस्य = वैशाखः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।।
[आषाढः] आषाढाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी = आषाढी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । आषाढी पौर्णमासी अस्य = आषाढः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[पौर्णमासी] पूर्णमास । पूर्णो माश्चन्द्रोऽस्यामस्तीति पौर्णमासी । 'पूर्णमासोऽण्' (७।२।५५) अण्प्र० → अ । वृद्धिः औ । 'अणजेयेकण्०' (२।४।२०) ङी । पूर्णश्चासौ माश्च = पूर्णमाः । पूर्णमास इयमिति वा । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । यद्वा पूर्णो मा मासो वा अस्याम् । पूर्णमासा वा युक्तं(क्ता) = पौर्णमासी । अत एव निपातनात् अण्प्र० → अ । वृद्धिः औ । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः ॥छ।।
आग्रहायण्यश्वत्थादिकण् ॥ ६।२।९९ ॥ [आग्रहायण्यश्वत्थात् ] आग्रहायणी च अश्वत्था च = आग्रहायण्यश्वत्थम्, तस्मात् । 'क्लीबे' (२।४।९७) हस्वत्वम् ।
[इकण् ] इकण् प्रथमा सि ।
[आग्रहायणिको मासोऽर्द्धमासो वा] अग्रं हायनस्येति कृते षष्ठ्यन्तस्य पूर्वनिपातः प्राप्नोति राजपुरुषवत् । 'द्वि - त्रि - चतुष्पूरणा०' (३।१।५६) इति तत्पुरुषसमासः । 'प्रथमोक्तं प्राक्' (३।१।१४८) अग्रस्य पूर्वनिपातः । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६८) णत्वम् । अग्रहायण एव = आग्रहायणी । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । — अस्य यां लुक्' (२।४।८६) अलुक् । आग्रहायणी पौर्णमासी अस्य = आग्रहायणिको मासः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । एवम् - अर्द्धमासो वा ।
[आश्वस्थिको मासोऽर्द्धमासो वा] अश्वत्थेन चन्द्रयुक्तेन युक्ता (रात्रिः) = अश्वत्था । 'चन्द्रयुक्तात्०' (६।२।६) अणो बाधकः 'श्रवणा - ऽश्वत्थान्नाम्न्यः' (६।२।८) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अश्वत्था पौर्णमासी यस्य सः = आश्वत्थिकः । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । मासोऽर्द्धमासो वा ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [160]