________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
कुमुदादेरिकः ॥ ६२९६ ॥
[कुमुदादेः] कुमुद(दं) आदिर्यस्य सः = कुमुदादिः, तस्मात् । [इकः] इक प्रथमा सि ।
[ कुमुदिकम् ] कुमुदानां निवासः - अदूरभवो वा । कुमुदानि सन्त्यत्र । कुमुदैनिवृत्तं = कुमुदिकम् । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[इक्कटिकम् ] 'इंण्क् गतौ' (१०७५) इ । एतीति क्विप्र० । 'हुस्वस्य०' (४।४।११३) तोऽन्तः - इत् । कटाः । पृषोदरादित्वात् तस्य कः । इक्कटा: सन्त्यत्र । अनेन इकप्र० ।
[बल्वजिकम् ] बि(ब)ल्वजानां निवासः - अदूरभवो वा । बल्वजाः सन्त्यत्र । बल्वनिवृत्तं = बल्वजिकम् । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । इति कुमुदादिः ॥छ।
अश्वत्थादेरिकण् ॥ ६।२।९७ ॥ [ अश्वत्थादेः] अश्वत्थ आदिर्यस्य सः = अश्वत्थादिः, तस्मात् । [इकण्] इकण् प्रथमा सि ।
[आश्वत्थिकम् ] अश्वत्थानां निवासः - अदूरभवो वा । अश्वत्थाः सन्त्यत्र । अश्वत्थैनिवृत्तः(त्तम्) = आश्वत्थिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कौमुदिकम् ] कुमुदानां निवास: - अदूरभवो वा । कुमुदानि सन्त्यत्र । कुमुदैनिवृत्तः(तं) = कौमुदिकम् । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[घासकुन्द ] घासप्रधानं कुन्दः = घासकुन्द । [मुचुकर्ण] मुचौ कौँ यस्य स । पृषोदरादित्वात् मुचुकर्णनिपातः । इति अश्वत्थादिगणः ॥छ।।
साऽस्य पौर्णमासी ॥ ६।२।९८ ॥ [सा] सा प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से:' (१।४।४५) सिलुक् । 'वाद्यात्' (६।१।११) इत्यधिकारात् प्रथमान्तादिति लभ्यते, अथवा पञ्चमी दीयते ।
[अस्य ] अस्य सप्तमी ङि । सूत्रत्वाल्लोपः । [ पौर्णमासी] पौर्णमासी प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
देश इति निवृत्तम्, पौर्णमासी ग्रहणात् । इतिकरणो विवक्षार्थः । तेन मासाद्धमासयोरेव संवच्छरपर्वणोः प्रत्ययः । मासार्द्धमासयोः किं विशिष्टयोः । संवच्छरस्य पर्वणी, संवच्छरस्य पर्वणी, संवच्छरस्य पर्वणी तयोः । अस्य इति अवयवावयविसंबन्धे षष्ठी ।
[पौषो मासः] पुष्य । पुष्येण चन्द्रयुक्तेन युक्ता पौर्णमासी = पौषी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तिष्य - पुष्ययोर्भाणि' (२।४।९०) यलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [159]