________________
१५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कृशाश्वादेरीयण ॥ ६।२।९३ ॥ [कृशाश्वादेः] कृशाश्व आदिर्यस्य सः = कृशाश्वादिः, तस्मात् । [ईयण् ] ईयण् प्रथमा सि ।
[काश्विीयः] कृशोऽश्वोऽस्य सः = कृशाश्वः । कृशाश्वस्य निवासः - अदूरभवो वा । कृशाश्वोऽत्रास्ति । कृशाश्वेन निवृत्तः = काश्विीयः । अनेन ईयणप्र० → ईय । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आरिष्टीयः] अरिष्टस्य निवासः - अदूरभवो वा । अरिष्टोऽत्रास्ति । अरिष्टेन निवृत्तः = आरिष्टीयः । अनेन ईयणप्र० → ईय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[अरिष्य] अरि 'पांक रक्षणे' (१०६७) पा । अरीन् पाति । 'कर्म - वेषाद् यः' (६।४।१०३) यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । गणपाठात् षागमः ।
[सायस्(स)] सह अयसा वर्तते = सायस । गणपाठात् अत्समासान्तः → अप्र० ।
[अरुष्य(प)] अरुस् 'पांक् रक्षणे' (१०६७) पा । अरुः पाति । 'आतो डोऽह्वा - वा - मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१११४) आलुक् । 'सो रुः' (२।१।७२) स० → र० । 'रः कख - पफयो:०' (१।३।५) र० → ष० ।
[ संदृश ] सम्यग् दृश्यते = संदृश । 'अच्' (५।१।४९) अच्प्र० → अ । [पुरगा] पुरगा राक्षसी उच्यते । इति कृशाश्वादिगणः ॥छ।।
ऋश्यादेः कः ।। ६।२।९४ ॥ [ऋश्यादेः] ऋश्य आदिर्यस्य सः = ऋश्यादिः, तस्मात् ।
[कः] क प्रथमा सि । [ऋश्यकः] ऋश्यस्य निवासोऽदूरभवो वा । ऋश्योऽत्रास्ति । ऋश्येन निवृत्तः = ऋश्यकः । अनेन कप्र० ।
[न्यग्रोधकः] न्यग्रोधस्य निवासः - अदूरभवो वा । न्यग्रोधोऽत्रास्ति । न्यग्रोधेन निवृत्तः = न्यग्रोधकः । अनेन कप्र० । इति ऋश्यादिगणः ॥छ।।
वराहादेः कण् ॥ ६।२।९५ ॥ [वराहादेः] वराह आदिर्यस्य सः = वराहादिः, तस्मात् । [कण्] कण् प्रथमा सि ।
[वाराहकम्] वराहस्य निवासः - अदूरभवो वा । वराहोऽत्रास्ति । वराहेन(ण) निवृत्तं = वाराहकम् । अनेन कण्प्र० → क । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि - अम् ।
[पालाशकम् ] पलाशस्य निवासः - अदूरभवो वा । पलाशोऽत्रास्ति । पलाशेन निवृत्तं = पालाशकम् । अनेन कण्प्र० , क । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ।
इति वराहादिगणः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [158]