________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१५७
कर्णादेरायनिञ् ॥ ६।२।९० ॥
[कर्णादेः] कर्ण आदिर्यस्य सः = कर्णादिः, तस्मात् । [आयनिञ् ] आयनिञ् प्रथमा सि ।
[कार्णायनिः] कर्णस्य राज्ञ ऋषिर्वा(ऋषेर्वा) निवासः - अदूरभवो वा । कर्णोऽत्रास्ति । कर्णेन निवृत्तः = क(का)र्णायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[वासिष्ठायनिः] वसिष्ठस्य निवासः - अदूरभवो वा । वसिष्ठोऽत्रास्ति । वसिष्ठेन निवृत्तः = वासिष्ठायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[पाञ्चजन्य] पञ्च च ते जनाश्च = पञ्चजनाः । पञ्चजनेषु भवः = पाञ्चजन्यः । 'गम्भीर - पञ्चजन - बहिर्देवात्' (६।३।१३५) ज्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[जीवन्त ] जीवन्त ऋषिरुच्यते । इति कर्णादिगणः ॥छ।।
उत्करादेरीयः ॥ ६।२।९१ ॥ [ उत्करादेः] उत्कर आदिर्यस्य सः = उत्करादिः, तस्मात् । [ईयः] ईय प्रथमा सि ।
[उत्करीयः] उत्करस्य निवासः - अदूरभवो वा । उत्करोऽत्रास्ति । उत्करेण निवृत्तः = उत्करीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सङ्करीयः] सङ्करस्य निवासः - अदूरभवो वा । सङ्करोऽत्रास्ति । सङ्करेण निवृत्तः = सङ्करीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[जन्य ] जनी । जनीं - वधूं वहति । 'हृद्य - पद्य - तुल्य - मूल्य - वश्य - पथ्य - वयस्य - धेनुष्या - गार्हपत्य - जन्य - धर्म्यम्' (७।१।११) जन्यनिपातः । इति उत्करादिगणः ॥छ।
नडादेः कीयः ॥ ६।२।९२ ॥ [नडादेः ] नड आदिर्यस्य सः = नडादिः, तस्मात् । [कीयः] कीय प्रथमा सि ।
[नडकीयः] नडानां निवासः - अदूरभवो वा । नडाः सन्त्यत्र । नडैनिवृत्तः = नडकीयः । अनेन कीयप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
_ [प्लक्षकीयः] प्लक्षाणां निवासः - अदूरभवो वा । प्लक्षाः सन्त्यत्र । प्ल:निवृत्तः = प्लक्षकीयः । अनेन कीयप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
इति नडादिगणः ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [157]