________________
१६६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[मासिकम् ] मासे भवं, मासो देवता अस्येति वा = मासिकम् । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् ।
[सांवत्सरिकम् ] संवत्सरे भवं, संवत्सरो देवता अस्येति वा = सांवच्छ(त्स)रिकम् । 'वर्षा - कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः । सि - अम् ।
[हैमनम् ] हेमन्त । हेमन्ते भवं, हेमन्तो देवता अस्येति वा = हैमनम् । 'हेमन्ताद् वा तलुक् च' (६।३।९१) अण्प्र० → अ - तस्य लुक् च । वृद्धिः ऐ । __[वासन्तम्] वसन्ते भवं, वसन्तो देवता अस्येति वा = वासन्तम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[प्रावृषेण्यम् ] प्रावृष् । प्रावृषि भवं, प्रावृट् देवता अस्येति वा = प्रावृषेण्यम् । 'प्रावृष एण्यः' (६।३।९२) एण्यप्र० । सि - अम् ॥छ।।
आदेः छन्दसः प्रगाथे ॥ ६।२।११२ ॥ [आदेः] आदि पञ्चमी ङसि । [छन्दसः] छन्दस् पञ्चमी ङसि ।
[प्रगाथे] प्रगाथ सप्तमी ङि । प्र 'ग्रन्थश् संदर्भे' (१५४८) ग्रन्थ् । प्राथ्यते = प्रगाथः । 'भावा - ऽकोंः ' (५।३।१८) घप्र० → अ । पृषोदरादित्वात् प्रगाथनिपात्यते । अथवा कैं (३६) - 'मैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा, प्रपूर्व० । प्रगीयते = प्रगाथः । 'कमि-प्र-गार्तिभ्यस्थः' (उणा० २२५) थप्र०, तस्मिन् ।
यत्र द्वे ऋचौ प्रग्रन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते स मन्त्रविशेषः प्रगाथः ।
[पाङ्क्तः प्रगाथः] पङ्क्ति । पङ्क्तिरादिरस्य प्रगाथस्य = पाङ्क्तः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रगाथः छन्दोविशेषः ।
[आनुष्टुभः] अनुष्टुप् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'धुटस्तृतीयः' (२।१७६) प० → ब० । 'विरामे वा' (१।३।५१) ब० → प० । अनुष्टुप् आदिरस्य प्रगाथस्य सः = आनुष्टुभः । अनेन विहितः 'प्राग जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः ।
[जागतः] जगती । जगती आदिरस्य प्रगाथस्य सः = जागतः । अनेन विहितः 'प्राग् जितादण' (६।११३) अण्प्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'र: पदान्ते.' (१।३।५३) विसर्गः ।
[उदित्ययं शब्द आदिरस्य प्रगाथस्य] उदितिशब्दः सूर्योपस्थाने वर्त्तते ।
[पङ्क्तिरादिरस्य अनुवाकस्य] अनु 'वचंक् भाषणे' (१०९६) वच् । अनूच्यत इति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'वचोऽशब्दनाम्नि' (४।१।११९) इति कत्वस्य न निषेधः शब्दनामत्वात् । 'च-ज: क-गम्' (२।१।८६) च० → क० । अनुवाकः पाठविशेष इत्यर्थः ॥छ।।
___ योद्धृ-प्रयोजनाद् युद्धे ॥ ६।२।११३ ॥ [योद्धप्रयोजनात् ] योद्धा च प्रयोजनं च = योद्धप्रयोजनम्, तस्मात् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [166]