________________
१५४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
सुतङ्गमादेरिञ् ॥ ६।२।८५ ॥ [सुतङ्गमादेः] सुतङ्गम आदिर्यस्य सः = सुतङ्गमादिः, तस्मात् । [इञ्] इञ् प्रथमा सि ।।
[सौतङ्गमिः ] सुत अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) 'गम्लं गतौ' (३९६) गम् । सुतं गच्छतीति सुतङ्गमः । 'नाम्नो गमः खड्डौ०' (५।१।१३१) खप्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।९१) मोऽन्तः । सुतङ्गमस्य निवासः - अदूरभवो वा । सुतङ्गमोऽत्रास्ति । सुतङ्गमेन निवृत्तः = सौतङ्गमिः । अनेन इञ्प्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[मौनिचित्तिः] मुनेरिव चित्तं यस्य सः = मुनिचित्तः । मुनिचित्तस्य निवासः - अदूरभवो वा । मुनिचित्तोऽत्रास्ति । मुनिचित्तेन निवृत्तं = मौनिचित्तिः । अनेन इप्र० → इ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । इति सुतङ्गमादिः ॥छ।।
बलादेर्यः ॥ ६।२।८६ ॥ [बलादेः] बल आदिर्यस्य सः = बलादिः, तस्मात् ।
[यः] य प्रथमा सि ।
[बल्यम् ] बलस्य निवासः - अदूरभवो वा । बलमत्रास्ति । बलेन निवृत्तं = बल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
जबुल्यम् ] बुलस्य निवासः - अदूरभवो वा । बुलमत्रास्ति । बुलेन निवृत्तं = बुल्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पुल] पुल पगु कथ्यते । [ दुल ] 'दुलण् उत्क्षेपे' (१६९३) दुल् । [नल] नल तृणविशेषः ।।
[दल] दल खण्डम् ।
[लकुल ] 'लगे सङ्गे' (१०२४) लग् । लगतीति लकुल । 'कुमुल - तुमुल - निचुल - वञ्जुल - मञ्जुल - पृथुल - विशंस्थुलाङ्गल - मुकुल - शष्कुलादयः' (उणा० ४८७) लकुलनिपात्यते । इति बलादिगणः ॥छ।।
अहरादिभ्योऽञ् ॥ ६।२।८७ ॥ [अहरादिभ्यः] अहन् - आदि । अह आदिर्येषां ते = अहरादयः, तेभ्यः = अहरादिभ्यः । 'रो लुप्यरि' (२।१।७५) न० → र० ।
[अञ्] अञ् प्रथमा सि ।
ॐ इदमुदाहरणं बृहद्बत्रौ नास्ति ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [154]