________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१५३
अरीहणाऽऽदेरकण् ॥ ६।२।८३ ॥
[अरीहणाऽऽदेः] अरीहण आदिर्यस्य सः = अरीहणाऽऽदिः, तस्मात् । [अकण्] अकण प्रथमा सि ।
[आरीहणकम् ] अरि 'ईहि चेष्टायाम्' (८५७) ईह् । अरिभिरीह्यते । अनट्प्र० → अन । यद्वा अरीणामीहनः = अरीहणः । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) णत्वम् । अरीहराणां निवासः - अदूरभवो वा । अरीहणानि सन्त्यत्र । अरीहणैर्निवृत्तः = आरीहणकम् । अनेन अकण्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[खाण्डवकम्] खण्डु । खण्डूनां निवासः - अदूरभवो वा । खण्डूनि सन्त्यत्र । खण्डुभिनिवृत्तः = खाण्डवकम् । अनेन अकण्प्र० → अक । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
खण्डु - खण्डू इति शब्दद्वयमस्ति, तेन निवृत्तमित्यर्थे इह शब्दोद्देशे नाम्नि विहितोऽयमञ् विशेषविहितत्वात् कृतेऽर्थे 'वर्षा - कालेभ्यः' (६।३।८०) इति सामान्यविहितस्य गुणोऽपवादः ।
ज[चित्रायणि] चित्रस्यापत्यं = चित्रायणिः । 'अदोरायनि प्रायः' (६।१।११३) आयनिप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र - पृवर्णान्नो ण०' (२।३।६३) न० → ण० ॥छ।।
सुपन्थ्यादेWः ।। ६।२।८४ ॥ [सुपन्थ्यादेः ] सुपथी(सुपन्थाः) आदिर्यस्य सः, तस्मात् । [ ज्यः] ज्य प्रथमा सि ।
[सौपन्थ्यम्, सौवन्थ्यम् ] सुपथिन् । सुपथो निवासः - अदूरभवो वा । सुपथाः(न्थाः) अत्रास्ति । सुपथा निवृत्तः = सौपन्थ्यम् । अनेन ब्यप्र० → य । वृद्धिः औ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः । अत एव निपातनात् सुपथिन्शब्दस्य नागमः पस्य च वा वकारः - सौवन्थ्यमिति निष्पन्नः । - [सांकाश्यम् ] संकाशस्य निवासः - अदूरभवो वा । संकाशोऽत्रास्ति । संकाशैनिवृत्तः = सांकाश्यम् । अनेन ज्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । सि - अम् ।
[काम्पील्यम् ] कम्पीलस्य निवासः - अदूरभवो वा । कम्पीलोऽत्रास्ति । कम्पीलेन निवृत्तः । अनेन ज्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सि - अम् ।
[मगदिन] मा 'गद व्यक्तायां वाचि' (२९७) गद् । मां गदति = मगदः । अच्प्र० → अ । 'पृषोदरादयः' (३।२।१५५) मगदनिपात्यते । मगदोऽस्यास्ति = मगदिन् । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[आगस्त्य] आगस् 'त्यजं हानौ' (१७२) त्यज् । आगस्त्यक्तवान् । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[कलिव] कलिं वाति = कलिवः । 'आतो डोऽह्वा - वा - मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।
सुपन्थ्यादिगणः ॥छ। के अरीहणादिगणे - श्वित्रायणि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [153]