________________
१५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
रोऽश्मादेः ॥ ६२७९ ॥ [रः] र प्रथमा सि । [अश्मादेः ] अश्मन् - आदि । अश्मा आदिर्यस्य सः = अश्मादिः, तस्मात् । [अश्मरः] अश्मनां निवासः = अश्मरः । अनेन रप्र० ।
[यूषरः] 'युक् मिश्रणे' (१०८०) यु । यूयतेऽत्र कटुकादिना = यूषा । 'योरूच्च वा' (उणा० ५४१) यूषनिपातः । यूषानां(णां) निवासः - अदूरभवो वा । यूषाः सन्त्यस्याम् । यूनिवृत्तः । अनेन रप्र० ।
[ गुहा ] 'गुहौग् संवरणे' (९३५) गुह् । गुहनं = गुहा । “भिदादयः' (५।३।१०८) अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ ।। [पामन्] 'पां पाने' (२) पा । पिबतीति पामन् । 'मन्' (उणा० ९११) मन्प्र० ॥छ।।
प्रेक्षादेरिन् ॥ ६।२।८० ॥ [प्रेक्षादेः ] प्रेक्षा आदिर्यस्य सः = प्रेक्षादिः, तस्मात् । [इन् ] इन् प्रथमा सि ।
[प्रेक्षी] प्रेक्षाणां निवासः । प्रेक्षाणामदूरभवा । प्रेक्षा(क्ष)या निवृत्ता = प्रेक्षी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'इन् - हन् - यूषाऽर्यम्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ।
[फलकी] फलकया निवृत्ता = फलकी । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'इन् - हन्' (१४।८७) दीर्घः । 'दीर्घयाब' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः ॥छ।।
तृणादेः सल् ॥ ६।२।८१ ॥ [ तृणादेः ] तृणमादिर्यस्य सः = तृणादिः, तस्मात् । [सल्] सल् प्रथमा सि । [ तृणसा] तृणानां निवासः = तृणसा । अनेन सल्प्र० → स । 'आत्' (२।४।१८) आप्प्र० → आ । [नदसा] नदानां निवासः = नदसा । अनेन सल्प्र० → स । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
काशाऽऽदेरिलः ॥ ६।२।८२ ॥ [काशाऽऽदेः] काश आदिर्यस्य सः = काशाऽऽदिः, तस्मात् । [इलः] इल प्रथमा सि । [काशिलम् ] काशानां निवासः । अनेन इलप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् । [वाशिलम् ] वासा(शा)नां निवासः । अनेन इलप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि - अम् ।
[पीयुक्षा] पी(पि)यं याति । 'पी - मृग - मित्र - देव - कुमार - लोक - धर्म - विश्व - सुस्नाश्मावेभ्यो युः' (उणा० ७४१) किद् उप्र० । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । 'बै क्षये' (४२) \ । 'आत् सन्ध्यक्षरस्य' (४।२।१) क्षा । पीयुं क्षायतीति । 'आतो डोऽह्वा - वा - मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [152]