________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१५५
[आह्नम् ] अह्नां निवासः - अदूरभवो वा । अहानि सन्त्यत्र । अह्ना निवृत्तम् = आह्नम् । अनेन अप्र० → अ । वृद्धिः । 'अनीनादट्योऽतः' (७४/६६) अलोपः । सि - अम् ।
[लौमम् ] लोम्नां निवासः - अदूरभवो वा । लोमानि सन्त्यत्र । लोमभिर्निवृत्तं = लौमम् । अनेन अप्र० → अ । वृद्धिः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । सि - अम् । इत्यहरादिराकृतिगणः ॥छ।।
सख्यादेरेयण् ॥ ६।२।८८ ॥ [सख्यादेः ] सखि(सखा) आदिर्यस्य सः = सख्यादिः, तस्मात् । [ एयण् ] एयण् प्रथमा सि ।
[साखेयः] सखि । सख्युनिवासः - अदूरभवो वा । सखा अत्रास्ति । सख्या निवृत्तः = साखेयः । अनेन एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[साखिदत्तेयः] सखि 'डुदांग्क् दाने' (११३८) दा । सख्या दीयते स्म । 'क्त - क्तवतू' (५।१।१७४) क्तप्र० → त । 'दत्' (४।४।१०) इत्यनेन दा० → दत् । सखिदत्तस्य निवासः - अदूरभवो वा । सखिदत्तोऽत्रास्ति । सखिदत्तेन निवृत्तः = साखिदत्तेयः । अनेन एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
_ [वायुदत्त ] 'वांक् गति - गन्धनयोः' (१०६३) वा । वातीति वायुः । 'कृ - वा - पा - जि - स्वदि - साध्यशौ - दृ - स्ना - सनि - जानि - रहीणभ्य उण' (उणा० १) उणप्र० → उ । तेन = (वायुना) दीयते स्म । 'क्त - क्तवतू' (५।१।१७४) क्तप्र० → त । 'दत्' (४।४।१०) दा० → दत्देशः ।
[गोफिल] गोर्फि लाति = गोफिलः । 'आतो डोऽह्वा - वा - मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।।
[सपूल] सपू - पण्र्णानि लाति = सपूलः । 'आतो डोऽह्वा - वा - मः' (५।११७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।
इति सख्यादिगणः ॥छ।।
पन्थ्यादेरायनण् ।। ६।२।८९ ।।
[पन्थ्यादेः] पथिन् - आदि । पन्थाः आदिर्यस्य सः = पन्थ्यादिः, तस्मात् । [आयनण्] आयनण् प्रथमा सि ।
[पान्थायनः ] पथो निवासः - अदूरभवो वा । पन्थाः अत्रास्ति । पथा निवृत्तः = पान्थायनः । अनेन आयनण्प्र० → आयन । वृद्धिः । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लोपः । पथिन्शब्दस्य प्रत्यययोगे पकारात्परो नागमोऽत एव निपातनात् ।
[पाक्षायणः] पक्षस्य निवासः - अदूरभवो वा । पक्षोऽत्रास्ति । पक्षण निवृत्तः । अनेन आयनण्प्र० → आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण ।
[तौषायणः] तुषाणां निवासः - अदूरभवो वा । तुषाः सन्त्यत्र । तुषैर्निवृत्तः = तौषायणः । अनेन आयनणप्र० → आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) न० → ण० ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [155]