________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१४९
[इक्षुमती] इथूणां निवासः - अदूरभवो वा । इक्षवोऽस्यां सन्ति । इक्षुभिनिवृत्ता = इक्षुमती ।
[ द्रुममती ] द्रुमाणां निवासोऽदूरभवो वा । द्रुमाः सन्त्यस्याम् । द्रुमैनिवृत्ता = द्रुममती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् ।
[शरावती] शर(रा)णां निवासोऽदूरभवो वा । शराः सन्त्यस्याम् । शराभिनिवृत्ता । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'नाम्नि' (२।१।९५) म० → व० । 'अधातूदृदितः' (२।४।२) ङी ।
[इरावती] इराणां निवासः - अदूरभवो वा । इराः सन्त्यस्याम् । इराभिनिवृत्ता । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'नाम्नि' (२।१।९५) म० → व० । 'अधातूदृदितः' (२।४।२) ङी ।
[भागीरथी] भग । भगोऽस्यास्ति = भगी इन्प्रत्ययान्तः । भगी रथोऽस्य = भगीरथः । पृषोदरादित्वात् भगीरथः । भगीरथेन निवृता । 'तेन निवृत्ते च' (६।२७१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[जाह्नवी ] जगुना निवृत्ता = जाह्नवी । 'तेन निवृत्ते च' (६।२१७१) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[सौवास्तवी] सुवास्तु । शोभनं वास्तु - वस्त्रं अस्य । सुवास्तुना निवृत्ता = सौवास्तवी । 'तेन निवृत्ते च' (६।२७१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । 'अणजेयेकण' (२।४।२०) ङी ॥छ।।
मध्वादेः ।। ६।२७३ ॥ [मध्वादेः] मधु आदिर्यस्य सः = मध्वादिः, तस्मात् । अनद्यर्थ आरम्भः ।
[मधुमान्] मधुनि सन्त्यत्र = मधुमान् । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादे०' (१।४।९०) दीर्घः । 'दीर्घङ्याब्' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
[बिसवान्] बिसानि सन्त्यत्र = बिसवान् । 'तदस्याऽस्त्य०' (७२।१) मतुप्र० → मत् । 'मावर्णान्तो०' (२।१।९४) म० → व० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । ‘पदस्य' (२।१।८९) तलोपः ।
[स्थाणुमान् ] स्थाणूनि सन्त्यत्र = स्थाणुमान् । 'तदस्याऽस्त्य०' (७।२।१) मतुप्र० → मत् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
[कर्कन्धु, कर्कन्धू] कर्कन्धु उभयलिङ्गः । [किसर ] किसर - गन्धद्रव्य उच्यते । [ सार्पण ] सह अर्पणेन वर्त्तते = सार्पणः - वृक्ष उच्यते ।
पार्दा ] 'पांक् रक्षणे' (१०६७) पा । पातीति पा । 'मन् - वन् - क्वनिप् - विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१।१।३७) विच्लोपः । 'अर्द गति-याचनयोः' (३०१) अर्दु । पामर्दति = पार्दा । अच्प्र० । 'आत्' (२।४।१८) आप्प्र० → आ ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [149]