________________
१४८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
सि
।
भतेन निवृत्ते च ॥ ६।२७१ ॥ [तेन ] तेन पञ्चमी ङसि । सूत्रत्वाल्लुप् । [निवृत्ते] 'वृतूङ् वर्त्तने' (९५५) वृत्, निपूर्व० । निवृत्यते स्म । 'क्त - क्तवतू' (५।१।१७४) क्तप्र० → त, तस्मिन् । [च] च प्रथमा सि ।
यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि निवृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्त्तरि करणे वा तृतीया । यदा त्वकर्मकविवक्षया कर्त्तरि निवृत्तशब्दस्तदा हेतौ तृतीया ।
[कौशाम्बी ] कुश - अम्ब । कुशेन अम्बोऽम्बनं यस्य सः = कुशाम्बः । कुशाम्बेन निवृत्ता = कौशाम्बी । अनेन अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[काकन्दी] ककन्देन निवृत्ता = काकन्दी । अनेन अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।।
[माकन्दी] मकन्देन निवृत्ता = माकन्दी । अनेन अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । __[सागरः] सगरैर्निवृत्तः = सागरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[साहस्त्री परिखा] सहस्रेण निवृत्ता = साहस्री । अनेन अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । परिखा । चकारश्चतुण्ाँ योगानामुत्तरत्रानुवृत्त्यर्थः, तेनोत्तरे प्रत्यया यथायोगं चतुर्वर्थेषु भवन्ति ॥छ।।
नद्यां मतुः ॥ ६।२७२ ॥ [नद्याम् ] नदी सप्तमी ङि । [मतुः] मतु प्रथमा सि ।
[ उदुम्बरावती] उदुम्बर । उदुम्बराणां निवासः - अदूरभवः । उदुम्बराः सन्त्यस्याम् । उदुम्बरैर्निवृत्ता = उदुम्बरावती । अनेन मतुप्र० → मत् । 'नाम्नि' (२।१।९५) म० → व० । 'अनजिरादिबहुस्वर-शरादीनां मतौ' (३।२।७८) दीर्घः । 'अधातूदृदितः' (२।४।२) ङी ।।
[मशकावती] मशकानां निवासः अदूरभवो वा । मशकाः सन्त्यस्याम् । मशकैनिवृत्ता = मशकावती । अनेन मतुप्र० → मत् । 'नाम्नि' (२।१।९५) म० → व० । 'अनजिरादि०' (३।२।७८) दीर्घः । 'अधातूदृदितः' (२।४।२) ङी।
[वीरणावती] वि अण (२५९) - 'रण शब्दे' (२६०) रण् । वियं रणन्ति । 'मूलविभुजादयः' (५।१।१४४) कप्र० → अ । 'पृषोदरादयः' (३।२।१५५) वीरणनिपात्यते । वीरणानां निवासः - अदूरभवो वा । वीरणाः सन्त्यस्याम् । वीरणैर्निवृत्ता । अनेन मतुप्र० → मत् ।
[पष्करावती] पृष्कराणां निवासः - अदरभवो वा । पुष्कराणि सन्त्यस्याम् । यदक्तं लिङ्गानशासने - "शुङ्गवेरमजिराभ्रपुष्करं" इति नपुंसक । पुष्करैनिवृत्ता = पुष्करावती । अनेन मतुप्र० → मत् । 'नाम्नि' (२।१।९५) म० → व० । 'अनजिरादि०' (३।२।७८) दीर्घः । 'अधातूदृदितः' (२।४।२) ङी ।
श्लोकाङ्कः - २१ ढुण्ढिकाकारेण सर्वत्र निवृत्ते इत्येव लिखितम् । रूपप्रक्रियापि तदनुसारमेव प्रदर्शिता, परं बृहद्वृत्त्यादिषु प्रायः सर्वेषु स्थानेषु निर्वृत्ते इति प्रदर्शितं, रूपप्रक्रियापि तदनुसारं प्रदर्शिता, तद्विद्वद्भिर्येयम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [148]