________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१४७
'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः-लण्ड्, आपूर्व० । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । आलण्ड्यते = आलण्ड्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णेरनिटि' (४।३।८३) णिच्लोपः । आलण्ड्यस्यापत्यं वृद्धम् = आलण्ड्यिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । वृद्धिः । आलण्ड्येरपत्यं युवा = आलण्ड्यायनः । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । आलण्ड्यायनश्च पर्णाश्च = आलण्ड्यायनपर्णाः । आलण्ड्यायनपर्णानां निवासः = आलण्ड्यायनपर्णाः ।
[शफण्डी] शफण्ड । 'गौरादिभ्यो मुख्यान्ङीः' (२।४।१९) ङी । शफण्ड्या निवासः = शफण्डी । अनेन अण्प्र० । बहुलं लुप् ।
[जालपदा ] भट्टारिका जालपदाया अभावः = जालपदा । अनेन अण्प्र० । बहुलं लुप् । [ मथुरा] भट्टारिका मथुराया निवासः = मथुरा । अनेन अण्प्र० । लुप् ।
[ उज्जयनी] भट्टारिका उज्जयन्या निवासः = उज्जयनी । अनेन अण्प्र० । बहुलं लुप् ।
[गया ] भट्टारिका गयानां निवासः = गया । अनेन अण्प्र० । लुप् ।
[उरशा] उरशा नाम भट्टारिकाया निवासः = उरशा । अनेन अण्प्र० । बहुलं लुप् । [ तक्षशिला] तक्षशिला नाम भट्टारिकाया निवासः = तक्षशिला । अनेन अण्प्र० । लुप् ।
[कटुकबदरी] कटुकबदर्या निवासः = कटुकबदरी । अनेन अण्प्र० । लुप् ।
[खलतिकं वनानि] खल 'तिकट हिंसायाम्' (१३०१) तिक् । खलांस्तिक्नोति । अच्प्र० । खलति 'कैं शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य' (४।२।१) का । खलति कायन्ति कायति वा = खलतिकः । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । खलतिकस्य पर्वतस्य निवासः = खलतिकम् । अनेन अण्प्र० । बहुलं लुप् । सि-अम् ।
अमूनि मतान्तरे उदाहरणानि । स्वमतमेव द्रढयन्नाह आचार्यः - अङ्गवरणादीनामित्यादि ॥छ।।
तदत्राऽस्ति ॥ ६।२७० ॥
[ तद् ] तद् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
[अत्र ] अत्र सप्तमी ङि । 'अव्ययस्य' (३।२।७) डिलुप् ।
[ अस्ति ] अस्ति प्रथमा सि । सूत्रत्वाल्लुप् । प्रथमान्तं चेदस्तीति कोऽर्थः? प्रथमान्तस्य नाम्नोऽस्तिक्रियया सहैक्यं भवति यदा तदा प्रत्ययो भवतीत्यर्थः।
[भूमा ] बहु । बहोर्भावः = भूमा । भूमिनिन्दा - प्रशंसादौ । 'पृथ्वादेरिमन् वा' (७।१।५८) इमन्प्र० । 'भूर्लुक् चेवर्णस्य' (७।४।४१) बहुस्थाने भूरादेशः - इवर्णस्य च लुक् ।
[औदुम्बरं नगरम्, औदुम्बरो जनपदः, औदुम्बरः पर्वतः ] उदुम्बर । उदुम्बरा अस्मिन् देशे सन्ति = औदुम्बरम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् । नगरम् । एवम् - औदुम्बरो जनपदः पर्वतश्च ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [147]