________________
१४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
वैदिशम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । सि-अम् । नगरं जनपदो वा ।
[वाराणसी ] हुदे वर्तमान: वरणाशब्दः स्त्रीलिङ्गः । वरणा च असिश्च = वरणासी । वरणास्योरदूरभवा । पृषोदरादित्वात् रस्य दी? णस्य तु ह्रस्वः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[हिमतम्] व्रीहिमती । व्रीहिमत्या अदूरभवं = त्रैहिमतम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् ।
[यावमतम् ] यवमती । यवमत्या अदूरभवं = यावमतम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् । सि-अम् ।
मतान्तरेऽनेन विहितः अग्रेतनेषु उदाहरणेषु प्रत्ययो ज्ञेयः । [अङ्गाः] अङ्गानां निवासः । [वङ्गाः ] वङ्गानां निवासः । [कलिङ्गाः] कलिङ्गानां निवासः ।
[सुह्माः] सुझानां निवासः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । 'पुरु-मगधकलिङ्ग-सूरमस-द्विस्वरादण' (६।१।११६) अनेन विहितः अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् उभयप्रत्ययस्य ।
[मगधाः ] मगधानां निवासः ।
+[ शुण्डाः ] शुण्डानां निवासः = शुण्डाः । 'पुरु-मगध०' (६।१।११६) अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।११४) अण्लुप् ।
[कुरवः] कुरूणां निवासः । अनेन विहितः 'कुर्वादेर्व्यः' (६।१।१००) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । [पञ्चालाः] पञ्चालानां निवासः ।
[ मत्स्याः ] मत्स्यानां निवासः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिर' (६।१।११४) अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् ।
[वरणा नगरम् ] वरणानामवृक्षविशेषस्यादूरभवम् । अनेन अण्प्र० । 'लुप् बहुलं०' (६।२।५७) अण्लोपः । जस् । नगरे वर्तमानः बहुवचनान्त: पुल्लिङ्गः लुप् बहुलमित्यत्र बहुलवचनस्येति भणनात् पुंस्त्वं निनीयते ।
[शङ्गशाल्मलयो ग्रामः] शृङ्गशाल्मलीनां निवासः = शृङ्गशाल्मलयौ(यो) ग्रामः । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । [गोदौ ग्रामः ] गोदयोर्हदयोर्निवासः = गोदौ । अनेन अण्प्र० । लुप् । औ । ग्रामः ।
आलण्ड्यायनपर्णा ग्रामः] आलण्ड्यायनपर्णानां निवासः = आलण्ड्यायनपर्णा । मतान्तरे अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । ग्राम प्रथमा सि । 'ओलडुण उत्क्षेपे' (१६२४) लड् । केचिदुकारान्तं पठन्ति ।
ॐ बृहवृत्तौ-पुण्ड्राः ।
ॐ बृहवृत्तौ - आलन्यायनपर्णा ग्रामः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[146]