________________
१५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ कीशरु ] कुत्सितः शरुः = कीशरुः । “पृषोदरादयः' (३।२।१५५) किम्० → की० ।
[पार्दाकी] पार्दा 'कैं शब्दे' (३६) कै। 'आत् सन्ध्यक्षरस्य' (४।२।१) का । पार्दा कायति = पार्दाकी । 'आतो डोऽह्वा - वा - मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[आसन्दी] आसन्दयते = आसन्दी । योगविभागान्मोऽन्तः । अचप्र० । [शकली] शकल 'गौरादिभ्यो०' (२।४।१९) ङी ।
[आमिषी] आ जिषू (५२२) - विषू (५२३) - 'मिषू सेचने' (५२४) मिष् । आमिषति = आमिषी । अच्प्र० । 'गौरादिभ्यो०' (२।४।१९) ङी ॥छ।।
नड - कुमुद - वेतस - महिषाड्डित् ॥ ६।२।७४ ।। [नडकुमुदवेतसमहिषात् ] नडश्च कुमुदश्च वेतसश्च महिषश्च = नडकुमुदवेतसमहिषम्, तस्मात् । [डित् ] ड् इदनुबन्धो यस्य सः = डित् । प्रथमा सि ।
[चातुरर्थिकः] चतुर्वर्थेषु भवः = चातुरर्थिकः । 'अध्यात्मादिभ्य इकण्' (६।३।७८) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । तस्य इकणः 'द्विगोरनपत्ये०' (६।१।२४) इति न लुप्, पाठसामर्थ्यात् ।
अणाद्यपवादः । आदिशब्दात् नडशब्दात् 'नड - शादाद् वलः' (६।२७५) - कुमुदशब्दात् 'कुमुदादेरिकः' (६।२।९६) - इत्यादीनामपवादः ।
[नड्वान] नडानां निवास: - अदूरभवो वा । नडा: सन्त्यस्याम् । नडैर्निवृत्तः = नड्वान् । अनेन मतुप्र० → मत् - स च डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'ऋदुदितः' (१।४/७०) नोऽन्तः । 'अभ्वादेरत्वस: सौ' (१।४।९०) दीर्घः । 'मावर्णान्तो०' (२।१।९४) म० → व० । 'पदस्य' (२।११८९) तलोपः ।
[कुमुद्वान् ] कुमुदानां निवासः - अदूरभवो वा । कुमुदानि सन्त्यस्याम् । कुमुदैनिवृत्ता । अनेन मतुप्र० → मत् - स च डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'मावर्णान्तो०' (२।१।९४) म० → व० । 'पदस्य' (२।१।८९) तलोपः ।
[वेतस्वान् ] वेतस । वेतसानां निवास: - अदूरभवो वा । वेतसाः सन्त्यस्याम् । वेतसैनिवृतः = वेतस्वान् । अनेन मतुप्र० → मत् - डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलोपः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न स्तं मत्वर्थे' (१।१०२३) पदत्वनिषेधान्न रुत्वम् ।
[महिष्मान् देशः] महिषाणां निवासः - अदूरभवो वा । महिषाः सन्त्यस्याम् । महिषैनिवृत्तः = महिष्मान् । अनेन मतुप्र० → मत् - डित् । 'डित्यन्त्यस्वरादेः' (२।१।१४) अलोपः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वस: सौ' (१।४।९०) दीर्घः । 'दीर्घयाब्' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
ननु अलोपे षकारस्य पदान्तसद्भावात् 'धुटस्तृतीयः' (२।१७६) इति डत्वं कथं न भवति ? उच्यते - 'स्वरस्य०' (७।४।११०) इति अलोपस्य स्थानित्वात् पदान्तत्वं नास्ति, नैवम् - 'न सन्धि०' (७।४।१११) इत्यनेन असद्विधित्वान्न स्थानी भविष्यति, इति प्राप्नोत्येवं तर्हि 'असिद्धं बहिरङ्गमन्तरङ्गे' (न्या० सं० वक्ष० (१)/सूत्र-(२०)) इति न्यायाद्भविष्यति ।
[माहिष्मती नगरी] महिष्मान् देशः, तत्र भवा = माहिष्मती । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अणजेयेकण्' (२।४।२०) ङी । नगरी ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [150]