________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
द्विवचनटित्त्वाभ्यां मातापित्रोरिति विज्ञायते ॥छ।।
अवेर्दुग्धे सोढ-दूस-मरीसम् ॥ ६।२।६४ ॥ [अवेः] अवि पञ्चमी ङसि । [दुग्धे] दुग्ध सप्तमी ङि । [ सोढदूसमरीसम् ] सोढश्च दूसश्च मरीसश्च = सोढदूसमरीसम् ।
[अविसोढम्, अविदूसम्, अविमरीसम्] अवि । अवेर्दुग्धम् । अनेन सोढ-दूस-मरीसप्र० । सि-अम् । विधानसामर्थ्यादेषु षत्वं न भवति ॥छ।।
राष्ट्रेऽनङ्गाऽऽदिभ्यः ॥ ६।२।६५ ।। [राष्ट्र] राष्ट्र सप्तमी ङि।
[अनङ्गाऽऽदिभ्यः] अङ्ग आदिर्येषां ते = अङ्गादयः, न अङ्गादयः = अनङ्गादयः, तेभ्यः = अनङ्गाऽऽदिभ्यः । पञ्चमी भ्यस् ।
[शैबम् ] शिबि । शिबे राज्ञोऽपत्यानि । 'दु-नादि०' (६।१।११८) ज्यप्र० । 'बहुष्व०' (६।१।१२४) ज्यलुप् । शिबीनां राष्ट्रं = शैबम् । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । सि-अम् ।
[औषुष्टम् ] उषुष्टानां राष्ट्रम् = औषुष्टम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[गान्धारम् ] गन्धार । गन्धारस्यापत्यं = गान्धारिः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । गान्धारे राज्ञोऽपत्यानि गान्धारि(गान्धारयः) । 'गान्धारि-साल्वेयाभ्याम्' (६।।११५) अप्र० । 'अब्राह्मणात्' (६।१।१४१) लुप् । गान्धारीणां राष्ट्र = गान्धारम् । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । वृद्धिः । सि-अम् ॥छ।।
राजन्याऽऽदिभ्योऽकञ् ।। ६।२६६ ॥
[राजन्याऽऽदिभ्यः] राजन्य आदिर्येषां ते = राजन्याऽऽदयः, तेभ्यः = राजन्याऽऽदिभ्यः । पञ्चमी भ्यस् ।
[अकञ्] अकञ् प्रथमा सि ।
[राजन्यकम् ] राजन् । राज्ञोऽपत्यं = राजन्यः । 'जातौ राज्ञः' (६।१।९२) यप्र० । राजन्यानां राष्ट्र = राजन्यकम् । अनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सि-अम् ।
[दैवयातवकम्] देव-यातु । देवानां यातुः = देवयातुः - रक्षस्तस्यापत्यानि = दैवयातवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । दैवयातवानां राष्ट्र = दैवयातवकम् । अनेन अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । सि-अम् ।
[शालङ्कायन] शलङ्कु । शलङ्कोरपत्यं = शालङ्कायनः(शालङ्किः) । 'शालङ्क्यौदि-षाडि-वाड्वलि' (६।१।३७) इप्र० । वृद्धिः । शालङ्केरपत्यं = शालङ्कायनः । 'यञिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [141]