________________
१४२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[बाभ्रव्य] बभ्रु । बभ्रोरपत्यं कौशिकः = बाभ्रव्यः । 'मधु-बभ्रोर्ब्राह्मण-कौशिके' (६।१।४३) यप्र० → य । ‘वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[जालन्धरायण] जलन्धरस्यापत्यं = जालन्धरायणः । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[जानन्धरायण] जनन्धरस्यापत्यं = जानन्धरायणः । 'नडादिभ्य आयनण' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कौन्ताल ] टुक्षु (१०८४) - रु (१०८५) - 'कुंक् शब्दे' (१०८६) कु । कौतीति कुत् । 'क्विप्' (५।१।१४८) क्विप्र० । 'इस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत्' (१११३७) क्विप्लोपः । कुतं तालयति = कुन्तालः । 'पृषोदरादयः' (३।२।१५५) कुन्तालनिपात्यते । कुन्तालानां राष्ट्रस्य राजा, कुन्तालस्य राज्ञोऽपत्यं वा । 'राष्ट्रक्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।।
[आम्बरीपुत्र ] अम्बरस्यापत्यं स्त्री । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । पुत्र प्रथमा सि ।
[बैल्ववन] बिल्व । बिल्वानामिदं = बैल्वम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । बैल्वं वनमस्य = बैल्ववनः ।
[शैलूषज ] शैलूष 'जनैचि प्रादुर्भावे' (१२६५) जन् । शैलूषाज्जातः = शैलूषजः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लोपः ।
[औदुम्बर ] उदुम्बरस्येदम् = औदुम्बरम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।८) अलुक् ।
[तैतल] तितलो देवताऽस्य । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ॥छ।।
वसातेर्वा ॥ ६।२।६७ ॥ [वसातेः] वसाति पञ्चमी ङसि ।
[वा] वा प्रथमा सि ।
[वासातकम्, वासातम् ] 'वसं निवासे' (९९९) वस् । वसतीति । 'वस्यतिभ्यामातिः' (उणा० ६६२) आतिप्र० । वसाते राज्ञोऽपत्यानि । 'दु-नादि०' (६।१।११८) ञ्यप्र० । 'बहुष्व०' (६।१।१२४) ज्यलुप् । वसातीनां राष्ट्र = वासातकम् । अनेन अकञ्प्र० → अक । 'वृद्धि: स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) इलोपः । एवम्-वासातम् । 'राष्ट्रऽनङ्गाऽऽदिभ्यः' (६।२।६५) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ॥छ।।
भौरिक्यैषुकार्यादेविध-भक्तम् ॥ ६।२।६८ ॥ [भौरिक्यैषकार्यादेः] भौरिकिश्च ऐषुकारिश्च = भौरिक्यैषुकारी । भौरिक्यैषुकारी आदी यस्य सः = भौरिक्यैषकार्यादिः, तस्मात् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [142]