________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
अण्णू सिद्ध एव यलुगर्थं वचनम् । अथेह यग्रहणं किमर्थम् ? तदभावेऽपि 'अवर्णेवर्णस्य' (७७४६८) इत्यन्तलुक्सिद्धौ लुग्ग्रहणात् अन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुग् भविष्यति । सत्यम् यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम् । तेनोत्तरसूत्रे 'स्वरस्य परे प्राविधौ (७|४|११० ) इत्यस्यानुपस्थानाद्यकारलोपे 'अवर्णेवर्णस्य' (७।४।६८) इतीकारलोपो भवति ॥ छ
१२८
कंसीयायः ॥ ६२२४१ ॥
[कंसीयाञ्ज्यः] कंसीय पञ्चमी ङसि । ञ्य प्रथमा सि । 'धुटस्तृतीयः' (२।१।७६) त० द० । 'तृतीयस्य०’ (१।३।१) द० न० । 'तवर्गस्य० ' (१|३|६०) न० ज० ।
।
=
[ कांस्यम् ] कंस कंसाय इदं कंसीयम्। 'परिणामिनि तदर्थे (७|१|४४ ) ईयप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् । कंसीयस्य विकार: कांस्यम् । अनेन ज्यप्र० - ईयस्य यलोपश्च सस्वर: । 'अवर्णवर्णस्य' (७२४१६८) ईकारलोपः । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । सि-अम् ॥छ||
मार्थान्माने || ६| २|४२ ॥
=
[हेमार्थात्] हेम हेमो हेमं वा अर्थों यस्य सः हेमार्थः तस्मात् ।
=
[ माने] मान सप्तमी ङि ।
'दोरप्राणिन:' (६।२।४९) इत्यनेन दुसंज्ञकस्य मयटोऽपवादः ।
[ हाटको निष्कः, हाटकं कार्षापणम् ] 'हट दीप्तौ' (१८८) हट् । हटतीति हाटक: । 'णक-तृचौ' (५१११४८) णकप्र० अक । ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । हाटकस्य विकार: = हाटकः । अनेन अञ् (ण्) प्र० अ । वृद्धि: । 'अवर्णेवर्णस्य' ( ७१४/६८) अलुक् । अष्टोत्तरपलशतं निष्क उच्यते । एवम् हाटकं कार्षापणम् ।
[ जातरूपो निष्कः, जातरूपं कार्षापणम् ] जातरूपस्य विकार: = जातरूपः । अनेन अण्प्र० अ । वृद्धिः । निष्कः ।
[ हैमो निष्कः, हैमं कार्षापणम् ] हेमन् । हेम्नो विकार = हैमः । 'हेमाऽऽदिभ्योऽज्' (६।२२४५) अञ्प्र० अ । वृद्धिः ऐ । 'नोऽपदस्य तद्धिते' (७|४|६१) अन्लोपः ।
यद्यनेकाण् स्यात् तदा 'अणि' (७|४|५२) इत्यन्त्यस्वरादिलुगभावः स्यात् । अर्थग्रहणं स्वरूपविधिव्युदासार्थम् । [ हाटकमयी यष्टिः ] हाटकस्य विकारोऽवयवो वा = हाटकमयी 'दोरप्राणिनः (६।२२४९) मयट् मय 'अणञेयेकण्०' (२।४।२० ) ङी । यष्टि प्रथमा सि ॥छ ।
द्रोर्वयः || ६| २|४३ ॥
[ द्रो: ] द्रु पञ्चमी ङसि ।
[ वयः ] वय प्रथमा सि ।
'पयो द्रोर्यः' (६२।३५ ) इत्यस्यापवादः ।
[ डुवयं मानम् ] दु । द्रोविकारः द्रु |
=
द्रुवयम् । अनेन वयप्र० । सि-अम् मानम् ॥छ
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[128]