________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
मानात् क्रीतवत् ।। ६।२।४४ ॥ [मानात् ] मान पञ्चमी ङसि । [क्रीतवत् ] क्रीत इव = क्रीतवत् । 'तत्र' (७।१।५३) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । मीयते-परिच्छिद्यते येन तन्मानम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते ।
[शत्यम्, शतिकम् ] शतेन क्रीतं = शत्यम् । एवम्-शतिकम् । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) यइकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शत्यः, शतिकः] शतस्य विकारः = शत्यः । एवम्-शतिकः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) यइकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[साहस्त्रः] सहस्र । सहस्रेण क्रीतः = साहस्रः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । वृद्धिः ।
[ नैष्किकः] निष्केण क्रीतः = नैष्किकः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[द्विशतः, त्रिशतः ] द्वाभ्यां शताभ्यां क्रीतः = द्विशतः । त्रिभिः शतैः क्रीतः = त्रिशतः । 'शताद् यः' (६।४।१४५) इति विकल्पेन यः तस्य विधानसामर्थ्यान्न लुप् । पक्षे-'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) कलुप् । एवम्-द्वयोः शतयोविकारः । शेषं पूर्ववत् ।
[द्विसहस्त्रः, द्विसाहस्त्रः] द्वाभ्यां सहस्राभ्यां क्रीतः । यद्वा द्वयोः सहस्रयोविकारः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० । 'नवाऽणः' (६।४।१४२) विकल्पेन अण्लुप् । यत्र अण् तिष्ठति तत्र 'मान-संवत्सरस्याशाणकुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । _[द्विनिष्कः, द्विनैष्किकः] द्वाभ्यां निष्काभ्यां क्रीतः । यद्वा द्वयोनिष्कयोविकारः = द्विनिष्कः - द्विनैष्किकः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'द्वि-त्रि-बहोर्निष्क-विस्तात्' (६।४।१४४) विकल्पेन इकण्लुप् । यत्र तिष्ठति तत्र 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) इति उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ॥छ।
हेमाऽऽदिभ्योऽञ् ॥ ६।२।४५ ॥ [हेमाऽऽदिभ्यः] हेम आदिर्येषां ते = हेमाऽऽदयः, तेभ्यः । [अञ्] अञ् प्रथमा सि ।।
[ हैमं शरासनम्, हैमी यष्टिः ] हेम्नो विकारः = हैमम् । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'नोऽपदस्य तद्धिते' (७/४/६१) अन्लोपः । सि-अम् । धनुः । हैमीत्यत्र 'अणजेयेकण्-नञ्' (२।४।२०) ङी । यष्टि प्रथमा सि ।
[राजतः] रजत । रजतस्य विकारः = राजतः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[बाहिण] 'बृह शब्दे च' (५५९) बृह् । बहतीति । 'फल-बच्चेिनः' (७२।१३) इनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । बी एव = बाहिणः । स्वार्थे अण्प्र० → अ । वृद्धिः आ । 'र-घृवर्णान्नो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० → ण० ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [129]