________________
१२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[जातुषम् ] जतुनो विकारः = जातुषम् । अनेन अण्प्र० → अ - षोऽन्तश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ ।
अण् सिद्ध एव षागमार्थं वचनम् ॥छ।।
शम्या लः ॥ ६।२।३४ ॥ [शम्याः ] शमी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । यत्वम् । [लः] ल प्रथमा सि ।
[शामीलं भस्म, शामीली शाखा] 'शमू उपशमे' (१२३०) शम् । शाम्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'शमोऽदर्शने' (४।२।२८) इस्वत्वम् । शमयति पित्तमिति शमी । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी० → इ० । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । शम्या विकारोऽवयवो वा = शामीलम् । अनेन अण्प्र० → अ - लोऽन्तश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । अग्रेतने 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
पयो-द्रोर्यः ॥ ६।२।३५ ॥ [पयोद्रोः] पयश्च द्रुश्च = पयोद्रु, तस्मात् । [यः] य प्रथमा सि । पयसो विकारेऽणोऽपवादः । द्रोरेकस्वरमयटश्च । [पयस्यम् ] पयसो विकारः = पयस्यम् । अनेन यप्र० । सि-अम् ।
[द्रव्यम्] द्रु । द्रोर्दारुणो विकारः = द्रव्यम् । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । सि-अम् ।
दारुशब्दस्य नपुंसकत्वात् द्रु इत्यस्यापि नपुंसकत्वं प्राप्नोति, कथं न भवति ? उच्यते-बाहुलकात् ॥छ।।
उष्ट्रादकञ् ॥ ६।।३६ ॥ [उष्ट्रात् ] उष्ट्र पञ्चमी ङसि । [अकञ्] अकञ् प्रथमा सि ।
[औष्ट्रकं मांसम्, औष्ट्रिका जङ्गा ] उष्ट्र 'जातेरयान्त-नित्यस्त्रीशूद्रात्' (२।४।५४) ङी० → ई० । 'अस्य यां लुक्' (२।४।८६) अलुक् । उष्ट्रस्य उष्ट्रया वा विकारोऽवयवो वा = औष्ट्रकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । मांसम् । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) यत्र ङी तत्र पुंवद्भावः । 'आत्' (२।४।१८) आप्प्र० → आ । जङ्घा ॥छ।।
उमोर्णाद्वा ॥ ६।२।३७ ॥ [उमोर्णात् ] उमा च ऊर्णा च = उमोर्णम् । 'क्लीबे' (२।४।९७) हुस्वः । तस्मात् । [वा] वा प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [126]