________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१२५
वा = मौर्वं काण्डं-भस्म च । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
वृक्षेभ्यः - [कारीरं काण्डम्, कारीरं भस्म] करीरवृक्षस्यावयवो विकारो वा = कारीरं काण्डं-भस्म च । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बैल्वं काण्डम्, बैल्वं भस्म] बिल्वस्यावयवो विकारो वा = बैल्वं काण्डं-भस्म च । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पाटलिपुत्रकः प्राकारः] पाटलिपुत्रस्यावयवः = पाटलिपुत्रकः । 'रोपान्त्यात्' (६।३।४२) अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तस्येदम्' (६।३।१६०) इति विवक्षायामत्र अवयवोऽपि इदमथे विवक्षितः इति भावार्थः ।
[पाटलिपुत्रक:(काः) प्रासाद:( दाः)] पाटलिपुत्रस्य नगरस्यावयवाः = पाटलिपुत्रकाः । 'रोपान्त्यात्' (६।३।४२) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । प्रासाद प्रथमा जस् ।
इतः परं विकारे प्राण्यौषधिवृक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते । तेनोत्तरे[ण ?] प्रत्ययाः प्राण्यौषधिवृक्षेभ्योऽवयवविकारयोः अन्येभ्यस्तु विकारमात्रे भवन्तीति वेदितव्यम् । प्राणिनश्चेतनावन्तः । औषधयः फलपाकान्ताः । वृक्षाः फालवन्तः (पुष्पवन्तः) फलवन्तश्च । वृक्षविशेषत्वाद् वनस्पतिवीरुधामपि लता तामपि वृक्षग्रहणेन ग्रहणम् । बहुवचनप्रदानात् सूत्रे प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्ध तदुपादानमिह शास्त्रे प्राणिग्रहणेन त्रसा एव गृह्यन्ते, न स्थावरा इति ज्ञापनार्थम् ॥छ।।
तालाद् धनुषि ॥ ६।२।३२ ॥
[तालात्] ताल पञ्चमी ङसि । [धनुषि ] धनुष्(स्) सप्तमी ङि । दुलक्षणस्य 'दोरप्राणिनः' (६।२।४९) इत्यस्य मयटोऽपवादः ।
[तालं धनुः] तालस्य विकारः = तालम् । अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । धनुस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । [ तालमयं काण्डम् ] तालस्य विकारस्तालमयम् । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० → मय । सि-अम् ॥छ।।
त्रपु-जतोः षोऽन्तश्च ॥ ६।२।३३ ॥ [त्रपुजतोः ] त्रपुश्च जतुश्च = त्रपुजतु, तस्मात् । [षः ] ष प्रथमा सि । [अन्तश्च] अन्त प्रथमा सि । च प्रथमा सि ।
[त्रापुषम् ] त्रपुणो विकारः = त्रापुषम् । अनेन अण्प्र० → अ - षोऽन्तश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [125]