________________
१२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सैरः] सीरस्य विकारः । 'हल-सीरादिकण्' (६।३।१६१) इत्यस्य प्राप्तौ अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७४।१) वृ० ऐ ।
[चैदः] चेदि । चेदीनां विकारः । राष्ट्र-क्षत्रियवाची चेदिशब्दोऽस्मात् 'काश्यादेः' (६।३।३५) इति णिकेकणोः प्राप्तौ अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[वार्जः] वृजि । वृजीनां विकारः = वार्जः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । 'वृजि-मद्राद् देशात् कः' (६।३।३८) इत्यस्य प्राप्तिः ।
[त्रैगतः] त्रिगर्त्तानां विकारः = त्रैगर्त्तः । बहुविषयत्वे 'बहुविषयेभ्यः' (६।३।४५) अकञ् । अन्यथा 'गतॊत्तरपदादीयः' (६।३।५७) इत्यनयोः प्राप्तौ अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[राङ्कवः] 'रमि क्रीडायाम्' (९८९) रम् । रमन्ते व्यवहारिणोऽत्र । 'कै-शी-शमि-रमिभ्यः कुः' (उणा० ७४९) कुप्र० । रङ्णां विकारः = राङ्कवः । 'रङ्कोः प्राणिनि वा' (६।३।१५) इत्यनेन टायनण्प्राप्तौ अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः सर्वत्र । 'तस्येदम्' (६।३।१६०) इत्येवाणादिसिद्धावार्धादिषु विकारे अणपवादबाधनार्थं वचनम् ॥छ।।
प्राण्यौषधि-वृक्षेभ्योऽवयवे च ॥ ६।२।३१ ॥ [प्राण्यौषधिवृक्षेभ्यः] प्राणी च औषधिश्च वृक्षश्च = प्राण्यौषधिवृक्षाः, तेभ्यः । [अवयवे] अवयव सप्तमी ङि । [च] च प्रथमा सि ।
प्राणिभ्यः - [कापोतं सक्थि, कापोतं मांसम् ] कपोतस्यावयवः = कापोतम् । कपोतस्य विकारः = कापोतम् । अनेन अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[मायूरं सक्थि, मायूरं मांसम् ] मयूरस्य विकारः = मायूरं सक्थि-मांसम् । मयूरस्यावयवः = मायूरम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । सि-अम् ।
[आविकं सक्थि, आविकं मांसम्] अवि । अवे(वि)रेव = अविकम् । 'यावादिभ्यः कः' (७।३।१५) कप्र० । अविकस्यावयवः = आविकं सक्थि । अविकस्य विकारः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलोपः । सि-अम् । मांसम् ।।
औषधिभ्यः - [ दौर्वं काण्डम्, दौर्वं भस्म ] दूर्वा । दूर्वाया अवयवो विकारो वा = दौर्वं काण्डं - भस्म च । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[मौर्वं काण्डम्, मौर्वं भस्म ] मूर्वन्ति ज्यां कर्तुरिति मूर्वा । 'अच्' (५।१।४९) अच्प्र० → अ । 'भ्वादेर्नामिनो दीर्घो र्वोwञ्जने' (२।१।६३) दीर्घः । 'आत्' (२।४।१८) आप्प्र० → आ । मूर्वाया अवयवो विकारो 卐 हैमप्रकाशे - वैदः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [124]