________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
केशाद्वा ॥ ६।२।१८ ॥
[केशात् ] केश पञ्चमी ङसि ।
[वा] वा प्रथमा सि ।
[कैश्यम्, कैशिकम् ] केशानां समूहः = कैश्यम्-कैशिकम् । अनेन ण्यप्र० → य - अचित्तेकण् इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
वाऽश्वादीयः ॥ ६।२।१९ ।।
[वा] वा प्रथमा सि ।। [अश्वात् ] अश्व पञ्चमी ङसि । [ईयः] ईय प्रथमा सि ।
[अश्वीयम्, आश्वम् ] अश्वानां समूहः = अश्वीयम् । अनेन वा ईयप्र० । एवम् - आश्वम् । 'षष्ठ्याः समूहे' (६।२।९) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः ॥छा।
पर्धा ड्वण् ॥ ६।२।२० ॥ [पर्धाः ] पशुं पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस्० । 'इवर्णा०' (शरा२१) व० । [इवण्] ड्वण प्रथमा सि ।
[पार्श्वम् ] पशु । पर्शोरपत्यानि शस्त्रजीव(वि)सङ्घाः स्त्रीत्वविशिष्टा विवक्षिताः । 'पुरु-मगध-कलिङ्ग-सूरमसद्विस्वरादण्' (६।१२११६) अण्प्र० । 'शकादिभ्यो नेर्लुप्' (६।१।१२०) अण्लुप् । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ् (२।४/७३) ऊङ् ततः स्वार्थे 'पर्वादेरण' (७।३।६६) अण्प्र० । 'द्रेरञणोऽप्राच्य-भर्गादेः' (६।१।१२३) अण्लुप् । 'ङ्यादेौणस्याक्विप०' (२।४।९५) ऊनिवृत्तौ पुनः ऊङ् । पशूनां समूह: = पार्श्वम् । अनेन ड्वण्प्र० → व । वृद्धि: आ । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऊलोपः ॥छ।।
ईनोऽह्नः क्रतौ ॥ ६।२।२१ ॥ [ईनः] ईन प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [अह्नः] अहन् पञ्चमी ङसि । [क्रतौ] क्रतु सप्तमी ङि ।
[अहीनः क्रतुः, आह्नमन्यत् ] अहन् । अह्नां समूहेन निर्वर्त्यः । अनेन ईनप्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । ऋ(क्र)तुनामत्वात् पुंस्त्वम् । एवम्-आह्नम् । 'श्वादिभ्योऽञ्' (६।२।२६) अप्र० → अ । 'अनीनाऽदट्यहोऽतः' (७४।६६) अलोपः । सि-अम् ॥छ।।
पृष्ठाद् यः ।। ६।२।२२ ।।
[पृष्ठात् ] पृष्ठ पञ्चमी ङसि । [यः] य प्रथमा सि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [119]