________________
१२०
[ पृष्ठ्यः क्रतुः ] पृष्ठानां समूहः सि । 'सो रुटु' (२|१|७२) स०र०
=
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
पृष्ठ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् ऋतु प्रथमा पृष्ठशब्दोऽहः पर्यायः ।
[ पाष्ठिकम् ] पृष्ठानां समूहः = पाष्ठिकम् । 'कवचि - हस्त्यचित्ताच्चेकण्' (६।२।१४ ) इकण्प्र० इक । वृद्धिः आर। 'अवर्णेवर्णस्य' ( ७४६८) अलुक् । सि-अम् ॥छ
चरणाद्धर्मवत् || ६|२२३ ॥
=
[ चरणात्] चरण पञ्चमी इसि ।
[ धर्मवत् ] धर्म इव = धर्मवत् । 'तत्र' (७७११५३) वत्प्र० । प्रथमा सि । 'अव्यवस्य' (३1२1७) सिलुप् ।
चरणं कठका( क ) लापादिः ।
[ काठकम् ] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठा: । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । अस्य च 'प्रोक्तात्' (६।२।१२९) लुप् पूर्वस्य । 'कठादिभ्यो वेदे लुप्' (६|३|१८३) द्वितीयअण्लुप् । कठानां धर्मः काटकम् । अनेन अकञ्प्र० अक वृद्धिः आ 'अवर्णेवर्णस्य' (७७४६८) अलुक् ।
[ कालापकम् ] कलाप कलापो ऽस्यास्तीति कलापी 'अतोऽनेकस्वरात्' (७१२२६) इन्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । कलापिना प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । तस्य 'प्रोक्तात्' (६/२/१२९) पूर्वस्य तु लुप् । 'कलापि०' (७२४६२) इत्यनेन इन्लुप् । कलापानां धर्मः = कालापकम् । अनेन अकञ्प्र० अक वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
=
[ छान्दोग्यम् ] छन्दस् कैं (३६) - 'गैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । छन्दोगायन्ति छन्दोगा: । ‘गायोऽनुपसर्गाट्टक्' (५/१/७४) टक्प्र० अ । 'इडेत् - पुसि चाऽऽतो लुक् (४|३|९४) आलुक् । छन्दोगानां धर्मः । 'छान्दोगौत्थिक- याशिक - बहवृचाच्च धर्माऽऽम्नाय सङ्के' (६/३/१६६) व्याप्र० → य। 'वृद्धिः स्वरेष्वादणिति०' (७४।१) वृ० आ 'अवर्णे० (७७४६८) अलुक् ।
[ औक्थिक्यम् ] उक्थ । उक्थमधीते इक वृद्धिः औ । 'अवर्णेवर्णस्य ( ७४६८) SSम्नाय सङ्घ' (६।३।१६६) ज्यप्रय
=
औक्थिकम्। याज्ञिकौत्थिक लौकायितिकम्' ( ६ २ १२२) इकण्प्र० अलुक् औक्थिकानां धर्मः 'छान्दोगौक्त्थिक याज्ञिक वचाच्च धर्मा'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
=
[ बाहवृच्यम् ] बहु ऋच् । बहव्य ऋचोऽस्य बहवृचः । ‘नञ्-बहोर्ऋऋचो माणव चरणे (७|३|१३५) अत् (प)समासान्तः । बह्वृचानां धर्मः । अनेन अण्प्र० ( ? ) । 'छान्दोगौक्त्थिक- याज्ञिक - बहवृचाच्च०' (६/३/१६६) व्यप्र० य। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[आथर्वणम् ] अथर्वण् अथर्वन् इति वा प्रकृतिः । अथर्वणं अथर्वाणं वा विदन्ति । 'न्यायादेरिकण्' ( ६ २ ११८) इकण्प्र० । इकण्यथर्वणः (७२४२४९) इति निषेधात् नान्त्यस्वरादिलोपः । वृद्धिः आ धर्मः । 'आथर्वणिकादणिकलुक् च' (६|३|१६७) अण्प्र० अ इकणलुक ।
आथर्वणिकानां
[ काठकम् ] कठ: पूर्ववत् साध्यः । कठानां धर्मः समूहो वा = काठकम् । 'चरणादकञ्' (६।३।१६८) अकञ्प्र० → अक 'अवर्णैवर्णस्य' (७४६८) अलुक् । सि अम् ॥
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [120]