________________
११८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ब्राह्मणराजन्यकम् ] ब्राह्मणाश्च राजन्याश्च = ब्राह्मणराजन्याः, तेषां समूहः = ब्राह्मणराजन्यकम् । 'गोत्रोक्ष-वत्सोष्ट्रवृद्धा-ऽजोरभ्र०' (६।२।१२) अकञ्प्र० → अक । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
+[वानहस्तिकम् ] वनस्य हस्ती = वनहस्ती । वनहस्तिनां समूहः = वानहा(ह)स्तिकम् । इकण्प्र० → इक । 'नोऽपदस्य०' (७।४।६१) इन्लोपः । ___[गौधेनुकम्] गावश्च धेनवश्च = गोधेनवः । गोधेनूनां समूहः = गौधेनुकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१) इलुक् । सि-अम् ॥छ।।
ब्राह्मण-माणव-वाडवाद् यः ।। ६।२।१६ ॥
[ब्राह्मणमाणववाडवात 1 ब्राह्मणश्च माणवश्च वाडवश्च = ब्राह्मणमाणववाडवम, तस्मात् ।
[यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [ब्राह्मण्यम् ] ब्राह्मणानां समूहः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [माणव्यम् ] माणवानां समूहः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [वाडव्यम् ] वाडवानां समूहः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
गणिकाया ण्यः ॥ ६।२।१७ ।।
[गणिकायाः] गणिका पञ्चमी ङसि । 'आपो ङितां यै०' (१।४।१७) ङसि० → यास् । [ण्यः] ण्य प्रथमा सि ।
[गाणिक्यम् ] 'गणण सङ्ख्याने' (१८७४) गण । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । अतः (४।३।८२) अलोपः । गणयति धनागममिति गणिका । ‘णक-तृचौ' (५।१४८) णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ० । गणिकानां समूहः = गाणिक्यम् । अनेन ण्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । _ [ब्राह्मण्ययात्रः] ब्राह्मणाः प्रकृता अस्यां यात्रायाम् । 'तयोः समूहवच्च बहुषु' (७।३।३) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ब्राह्मण्य 'आत्' (२।४।१८) आप्प्र० → आ । ब्राह्मण्या यात्रा यस्य सः = ब्राह्मण्ययात्रः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ् (३।२।४९) सर्वेषु पुंवद्भावः ।
[माणव्ययात्रः] माणव्या यात्रा यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । [वाडव्ययात्रः] वाडव्या यात्रा यस्य सः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । ण्ये हि पुंवद्भावो न स्यात् यथा
[गाणिक्यायात्रः] गाणिक्या यात्रा यस्य सः = गाणिक्यायात्रः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हस्वः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।।
बृहद्वृत्तौ - वानरहस्तिकम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[118]