________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
११७
[च] च प्रथमा सि ।
[कैदार्यम्, कैदारकम् ] केदाराणां समूहः = कैदार्यम्, केदारकम् । अनेन ण्यप्र० → य - अकञ्प्र० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ॥छ।।
कवचि-हस्त्यचित्ताच्चेकण् ।। ६।२।१४ ॥ [कवचिहस्त्यचित्तात् ] कवची च हस्ती च अचित्तं च = कवचिहस्त्यचित्तम्, तस्मात् । [च] च प्रथमा सि । [इकण्] इकण् प्रथमा सि ।
[कावचिकम् ] कवच । कवचान्येषां सन्तीति कवचिनः । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । कवचिनां समूहः = कावचिकम् । अनेन इकण्प्र० → इक । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः ।
[हास्तिकम् ] हस्तिन् । हस्तिनां हस्तिनीनां वा समूहः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या० सं० वक्ष०(१) / सूत्र (१६)) इति न्यायात् स्त्रीलिङ्गवर्त्तमानहस्तिनीशब्दस्यात्र ग्रहणम् । अनेन इकण्प्र० → इक । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) इत्यादिना पुंवद्भावः । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः ।
[आपूपिकम् ] अपूपानां समूहः = आपूपिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[शाष्कुलिकम् ] अशष्कुलानां समूहः = शाष्कुलिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कैदारिकम् ] केदाराणां समूहः = कैदारिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
केदारस्य त्रैरूप्यं भवति । ण्याकञ्भ्यां बाधा मा भूदिति केदारादिकविधानम्, अन्यथा अचित्तद्वारेणैव सिध्यन्ति ॥छ।
धेनोरनञः ॥ ६।२।१५ ॥ [धेनोः] धेनु पञ्चमी ङसि । [अनञः] न नञ् = अनञ्, तस्मात् ।
[धैनुकम् ] 'ट्धे पाने' (२८) धे । धे(ध)यन्ति = धेनवः । 'धेः शित्' (उणा० ७८७) नुप्र० । धेनूनां समूहः = धैनुकम् । अनेन इकण्प्र० → इक । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७/४/७१) इलुक् । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ ।
[आधैनवम्] न धेनवोऽधेनवः । अधेनूनां समूहः = आधैवनम् । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः ।
[क्षौद्रकमालवकम् ] क्षुद्रकाश्च मालवाश्च = क्षुद्रकमालवास्तेषां समूहः = क्षौद्रकमालवकम् । 'गोत्रोक्ष-वत्सोष्ट्रवृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ्' (६।२।१२) अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
卐 श० म० न्या० - शष्कुलीनां समूहः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [117]