________________
११४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[शौकम्] शुकानां समूहः = शौकम् । सर्वत्र अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ-औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[भैक्षुकम् ] भिक्षुक । भिक्षुकाणां समूहः = भैक्षुकम् । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वाडवम् ] वडवा । वडवानां समूहः = वाडवम् । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । वाडवशब्दाच्च 'ब्राह्मण-माणव-वाडवाद् यः' (६।२।१६) इत्यादिना यः आगच्छति ।
[वानस्पत्यम्] वनस्पति । वनस्पतीनां समूहः = वानस्पत्यम् । 'अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाञ्य:' (६।१।१५) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ।
[स्त्रैणम् ] स्त्री । स्त्रीणां समूहः = स्त्रैणम् । 'प्राग्वतः स्त्री-पुंसात् नञ्-स्नञ्' (६।१।२५) नप्र० → न । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ ।
[पौंस्नम् ] पुम्स् । पुंसां समूहः = पौंस्नम् । 'प्राग्वतः स्त्री-पुंसात् नब्-स्नञ्' (६।१।२५) स्नप्र० → स्न । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । सर्वत्र सि-अम् ।
'तस्येदम्' (६।३।१६०) इत्येवाणादिसिद्धौ समूहविवक्षायां तस्य अणोपवादो 'दोरीयः' (६।३।३२) इत्यादि तदपवादबाधनार्थो योगः ॥छ।।
भिक्षाऽऽदेः ॥ ६।२।१० ॥ [भिक्षाऽऽदेः] भिक्षा आदिर्यस्य सः = भिक्षाऽऽदिः, तस्मात् ।
[भैक्षम् ] भिक्षाणां समूहः = भैक्षम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[गाभिणम् ] गर्भिनां(णां) समूहः । अनेन अणप्र० । यदा शालिपङ्क्त्यादिवचनो गर्भिणीशब्दस्तदा अचित्तेकणः प्राप्तौ गर्भिणीना समूहः = गार्भिणम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः । 'संयोगादिनः' (७४।५३) इत्यन्त्यस्वरादिलोपप्रतिषेधः । । [यौवतम्] युवन् स्त्री चेत्-युवति । 'यूनस्तिः' (२।४।७७) तिप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । युवतीनां समूहः = यौवतम् । अनेन अण्प्र० → अ । वृ० औ । 'अवर्णवर्णस्य' (७४/६८) इलोपः ।
[यौवनम् ] युवतीनां समूहः = यौवनम् । मतान्तरे अनेन अण्प्र० → अ । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः । वृ० औ । सि-अम् ।
[सुरूपमतिनेपथ्यं कलाकुशलयौवनम्, यस्य पुण्यकृतः प्रेष्यं, सफलं तस्य यौवनम्] ॥१॥ अतिशायिने पथ्यं यस्य तदतिनेपथ्यम् । यौवनं पूर्ववत् । यस्य पुण्यकृतः प्रैष्यं आज्ञाकारीभूतं । यूनो भावः = यौवनम् । 'युवादेरण' (७।१।६७) अण्प्र० → अ । वृ० औ । सि-अम् ।
भिक्षादिगणः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [114]