________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
श्रवणा-ऽश्वत्थान्नाम्न्यः
॥ ६।२।८ ।।
[श्रवणाऽश्वत्थात् ] श्रवणश्च अश्वत्थश्च = श्रवणाऽश्वत्थम्, तस्मात् । [नाम्नि ] नामन् सप्तमी ङि । [अ] अ प्रथमा सि । सो रुः' (२।१।७२) स० → र० ।
[श्रवणा रात्रिः] श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिः = श्रवणा रात्रिः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । आत्' (२।४।१८) आप्प्र० → आ ।
[श्रवणा पौर्णमासी] कस्याश्चित् पूर्णमास्याः श्रवणेति नाम । पूर्ण 'मांक माने' (१०७३) मा । 'मांङ्क् मानशब्दयोः' (११३७) मा । माति मिमीते वा = मास् । 'अस्' (उणा० ९५२) इत्यस्प्र० । 'पूर्णो माश्चन्द्रोऽस्यामस्ति । 'पूर्णमासोऽण्' (७।२।५५) अण्प्र० । पूर्णो मासोऽस्यां, पूर्णमासा वा युक्ता । 'साऽस्य पौर्णमासी' (६।२।९८) पौर्णमासीनिपातः ।
[श्रवणो मुहूर्तः] श्रवणेन चन्द्रयुक्तेन युक्तोऽपि मुहूर्तः = श्रवणो मुहूर्तः । अनेन अप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । मुहूर्त प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[अश्वत्था रात्रिः] अश्वत्थेन चन्द्रयुक्तेन युक्ता रात्रिः = अश्वत्था रात्रिः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[अश्वत्था पौर्णमासी] अश्वत्थेन चन्द्रयुक्तेन युक्ता पौर्णमासी = अश्वत्था पौर्णमासी । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[अश्वत्थो मुहूर्तः] अश्वत्थेन चन्द्रयुक्तेन युक्तोऽपि मुहूर्तः = अश्वत्थो मुहूर्तः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
सत्यपि अन्वर्थयोगे न कालमात्रमेव उच्यते, कालविशेष एवेति नामत्वम् । [श्रावणमहः ] श्रवणेन चन्द्रयुक्तेन युक्तमहः = श्रावणमहः । [ श्रावणी रात्रिः] श्रवणेन चन्द्रयुक्तेन युक्ता रात्रिः = श्रावणी रात्रिः । [आश्वत्थमहः ] अश्वत्थेन चन्द्रयुक्तेन युक्तमहः = आश्वत्थमहः ।
[आश्वत्थी रात्रिः] अश्वत्थेन चन्द्रयुक्तेन युक्ता रात्रिः = आश्वत्थी रात्रिः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी ॥छ।।
षष्ठ्याः समूहे || ६।२।९ ॥ [षष्ठ्याः ] षष्ठी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस्० । [समूहे ] समूह सप्तमी ङि । [चाषम् ] चाषाणां पक्षिणां समूहः = चाषम् । [काकम् ] काकानां समूहः = काकम् । [बाकम् ] बकानां समूहः = बाकम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [113]