________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
क्षुद्रकमालवात् सेनानाम्नि ॥ ६।२।११ ॥ [क्षुद्रकमालवात् ] 'मलि धारणे' (८१०) मल् । मल्यते = मालः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । मालोऽस्यास्ति = मालवः । 'मण्यादिभ्यः' (७।२।४४) वप्र० । क्षुद्रकमालव इत्यखण्डं पञ्चम्यन्तम् ।
[सेनानाम्नि ] सेनाया नाम = सेनानाम, तस्मिन् ।
[क्षौद्रकमालवी एवंनामा काचित्सेना] क्षुद्रक । क्षुद्रकस्यापत्यं(त्यानि) । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । मालव । मालवस्यापत्यं(त्यानि) । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः ' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) द्वयोरपि लुप् । क्षुद्रकाश्च मालवाश्च = क्षुद्रकमालवास्तेषां समूहः = क्षौद्रकमालवी । अनेन अण्प्र० → अ । वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । एवंनामा काचित् सेना ।
[क्षौद्रकमालवकमन्यत् ] क्षुद्रकमालवानां समूहः = क्षौद्रकमालवकम् । 'गोत्रोक्ष-वत्सोष्ट्र-वृद्धाजोरभ्र-मनुष्य-राजराजन्य-राजपुत्रादकञ्' (६।२।१२) अकप्र० → अक । वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । गोत्राकञ्बाधनार्थं वचनम् ॥छ।।
गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ् ॥ ६।२।१२ ॥ [गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराजराजन्यराजपुत्रात् ] गोत्रं च उक्षा च वत्सश्च उष्ट्रश्च वृद्धश्च अजश्च उरभ्रश्च मनुष्यश्च राजा च राजन्यश्च राजपुत्रश्च = गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराजराजन्यराजपुत्रम्, तस्मात् ।
[अकञ्] अकञ् प्रथमा सि । स्वापत्यसन्तानस्य स्वव्यपदेशकारिणः प्रथमपुरुषस्यापत्यं गोत्रम् ।
[ औपगवकम् ] उप-गो । गोः समीपमुपगुः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । उपगोरपत्यमौपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । औपगवानां समूहः = औपगवकम् । अनेन अकञ्प्र० → अक । वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।।
[कापटवकम्] कपटु । कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । कापटवानां समूहः = कापटवकम् । अनेन अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।८) अलुक् ।
[गार्गकम्] गर्गस्यापत्यानि वृद्धानि । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । गर्गाणां समूहः = गार्गकम् । अनेन अकञ्प्र० → अक । 'न प्राजितीये स्वरे' (६।१।१३५) इत्यादिना यत्रो न लुप् । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
9 मध्यमवृत्तौ - गर्गस्यापत्यानि । 'गगादेर्यञ्' (६।१।४२) - ‘यञोऽश्यापर्णा०' (६।१।१२६) इति यञ् लुप्यते, ततो गर्गाणां समूहः = गार्गकमिति लघुवृत्त्यभिप्रायः । बृहवृत्तौ त्वेवम् - गार्याणां समूहो गार्गकम् । 'गोत्रोक्ष०' इति अकञ् । 'न प्राग्जितीये०' (६।१।१३५) इति प्रतिषेधाद् यजो न लुप्, ततः 'तद्धितयस्वरेऽनाति' (२।४।९२) इत्यनेन यकारो लुप्यते ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [115]