________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१११
[पौषोऽहोरात्रः] पुष्येण चन्द्रयुक्तेन युक्तोऽहोरात्रः = पौषोऽहोरात्रः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तिष्य-पुष्ययोर्भाऽणि' (२।४।९०) यलुक् । प्रथमा सि । अहन्-रात्रि । अहश्च रात्रिश्च = अहोरात्रः । 'ऋक्सामय॑जुष-धेन्वनडुह-वाङ्मनसा-ऽहोरात्र-रात्रिंदिवनक्तंदिवा-ऽहदिवोर्वष्ठीव-पदष्ठीवा-ऽक्षिध्रुव-दारगवम्' (७।३।९७) अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । 'अह्नः' (२।१।७४) न० → र० । 'घोषवति' (१०३।२१) र० → उ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१२।६)
ओ। __ [पौषः कालः ] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि पौषः कालः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तिष्य-पुष्य०' (२।४।९०) यलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[माघमहः ] मघाभिश्चन्द्रयुक्ताभिर्युक्तमहः = माघमहः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् । अहः पूर्ववत् ।।
[माघी रात्रिः] मघाभिश्चन्द्रयुक्ताभिर्युक्ता रात्रिः = माघी रात्रिः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । 'अणजेयेकण्' (२४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[माघोऽहोरात्रः] मघाभिश्चन्द्रयुक्ताभिर्युक्तोऽहोरात्रः = माघोऽहोरात्रः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[माघः कालः] मघाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि माघः कालः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
अद्येत्यस्याधारत्वमेव न सामानाधिकरण्यं मुहूर्त्तादिरप्रयोगः ।।
[अद्य पुष्यः] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि पुष्यः । अनेन अण्प्र० - लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[अद्य मघाः] मघाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि मघाः । अनेन अण्प्र० - लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[दिवा कृत्तिकाः] दिवा इत्यत्र प्रथमा सप्तमी वा । 'अव्ययस्य' (३।२।७) लुप् । कृत्तिकाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि कृत्तिकाः । अनेन अण्प्र० - लुप् च । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[रात्रौ फल्गुन्यः] रात्रि सप्तमी ङि | 'ङिडौँ' (श४।२५) ङि० → डौ० → औ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् । फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्त: कालोऽपि फल्गुन्यः । अनेन अण्प्र०-लुप् । 'फल्गुनी-प्रोष्ठपदस्य भे' (२।२।१२३) इत्यादिना बहुवद्भावः । प्र० जस् ।
[पुष्ये पायसमश्नीयात् मघासु पललौदनम्] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि पुष्यः । अनेन अण्प्र०-लुप् । सप्तमी ङि । पयस् । पयसि संस्कृतं = पायसम् । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० → अ । वृ० आ । द्वितीया अम् । पयसा संस्कृतमिति तु कृते 'संस्कृते' (६।४।३) इत्यनेन इकण् स्यात् । मघाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि मघाः । अनेन अण्प्र०-लुप् । सप्तमी सुप् । पललं च ओदनं च = पललौदनम् । अम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [111]