________________
११०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
उदितगुरोर्भाद् युक्तेऽब्दे ।। ६।२।५ ॥ [ उदितगुरोः] उदितो गुरुर्ब्रहस्पतिर्यस्मिन् तत् = उदितगुरु, तस्मात् । [भात्] भ पञ्चमी ङसि । [युक्ते] युक्त सप्तमी ङि । [अब्दे ] अब्द सप्तमी ङि ।
[पौषं वर्षम् ] पुष्येण उदितगुरुणा युक्तं वर्ष = पौषम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तिष्य-पुष्ययोर्भाऽणि' (२।४।९०) यलुक् । जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६) - 'वृषू सेचने' (५२७) वृष् । वर्षणं = वर्षः(म्) । 'वर्षादय: क्लीबे' (५।३।२९) अल्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[फाल्गुनः संवत्सरः] फल्गुन 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । फल्गुनीभिरुदितगुरुभिर्युक्तः = फाल्गुनः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । संवच्छर प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः ।।
[उदितगुरुणा पूर्वरात्रेण युक्तं वर्षम् ] उदितगुरु तृतीया टा । पूर्व-रात्रि । पूर्वो रात्र:(:), तेन । 'सङ्ख्यातैकपुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७३।११९) अत्समासान्तः → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'पूर्वा-ऽपराऽधरोत्तरमभिन्नेनांशिना' (३।१।५२) समासः । युक्तं वर्षम् ॥छ।।
चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते ।। ६।२।६ ।। [चन्द्रयुक्तात्] चन्द्रेण युक्तं = चन्द्रयुक्तम्, तस्मात् । [काले ] काल सप्तमी ङि । [लुप्] लुप् प्रथमा सि । [तु] तु प्रथमा सि । [अप्रयुक्ते ] न प्रयुक्तोऽप्रयुक्तस्तस्मिन् = अप्रयुक्ते । 'नजत्' (३।२।१२५) न० → अ० ।
[पौषमहः ] पुष्य । पुष्येण चन्द्रयुक्तेन युक्तमहः = पौषमहः । अनेन अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'तिष्य-पुष्ययोर्भाऽणि' (२।४।९०) यलुक् । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । अहन् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'रो लुप्यरि' (२।१।७५) न० → रेफः ।
[पौषी रात्रिः] पुष्येण चन्द्रयुक्तेन युक्ता रात्रिः = पौषी रात्रिः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तिष्य-पुष्ययोर्भाऽणि' (२।४।९०) यलोपः । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । प्रथमा सि । 'दीर्घयाब' (१।४।४५) सिलुक् । रात्रि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते.' (११३५३) विसर्गः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [110]