________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१०९
वाधिकारात् पक्षे कुसुम्भेन रक्तमिति वाक्यम् । कुसुम्भरक्तमिति समासः । रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते,तेनेह न भवति - कृष्णेन रक्तमित्यादि । एते हि वर्ण(D) द्रव्यवृत्तयो न तु रागाख्याः । कथं काषायाविव काषायौ, हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन तद्गुणाध्यारोपाद्भविष्यति ॥छ।।
लाक्षा-रोचनादिकण् ॥ ६।२।२ ।। [लाक्षारोचनात् ] लाक्षा च रोचना च = लाक्षारोचनम् । 'क्लीबे' (२।४।९७) हुस्वः, तस्मात् । [इकण्] इकण् प्रथमा सि ।
[लाक्षिकम् ] लाक्षया रक्तं = लाक्षिकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् ।
[रौचनिकम् ] रोचनया रक्तं = रौचनिकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । सि-अम् ॥छ।।
शकल-कईमाद् वा ॥ ६।२।३ ॥ [शकलकईमात् ] शकलश्च कर्दमश्च = शकलकर्दमम्, तस्मात् । [वा] वा प्रथमा सि ।
[शाकलिकम्, शाकलम् ] शकलेन रक्तं = शाकलिकम् । अनेन इकण्प्र० → इक विकल्पेन । अन्यत्र 'रागाट्टो रक्ते' (६।२।१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[काईमिकम्, काईमम् ] कर्दमेन रक्तं = काईमिकम् । अनेन इकण्प्र० → इक । पक्षे - 'रागाट्टो रक्ते (६।२।१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कईमो मृद्विकारः, पाण्डुमण्डले प्रसिद्ध इति विश्रान्तविद्याधरव्याकरणं वक्ति ॥छ।।
नील-पीताद-कम् ॥ ६।२।४ ॥
[नीलपीतात् ] नीलश्च पीतं च = नीलपीतम्, तस्मात् । [अकम्] अश्च कश्च = अकम् ।
[नीलम् ] नील इति नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् नील 'क्ताच्च नाम्नि वा' (२।४।२८) विकल्पेन ङी → ई० । 'अस्य यां लुक्' (२।४।८६) अलुक् । नीलेन नील्या वा रक्तं वस्त्रं = नीलम् । अनेन अप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अ-ईलुक् । सि-अम् ।।
[पीतकम् ] पीतेन रक्तं = पीतकम् । अनेन कप्र० । सि-अम् ।
[पीतकम् ] पीतं करोति = पीतयति । 'णिज्बहुलं नाम्नः कृगादिषु' (३।४।४२) णिच्प्र० । 'अतः' (४।३।८२) अलोपः । पीतयतीति पीतकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिच्लुक् । पीतकेन कुसुम्भप्रथमनिर्यासेन रक्तं = पीतकम् । ते हि मतान्तरिणः आचार्याः नीलपीतादः पीतात्क इति द्वे सूत्रे रचयन्ति । तन्मते अप्र० - अकप्र० गुणवचनत्वात् । गुणवचनविचारे नीलगुणयोगात् नीलं पीतं पीतगुणः । केन सिद्धे अणपवादार्थं वचनम् ॥छ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [109]