________________
१०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[वैदः पिता-पुत्रः] विदस्यापत्यं वृद्धं = वैदः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । वैदस्यापत्यं युवा । 'अत इञ्' (६।१।३१) इप्र० । अनेन इञ्लुप् ।
[कौरव्यः पिता-पुत्रः] कुरोः ब्राह्मणस्यापत्यं = कौरव्यः । 'कुर्वादेयः' (६।१।१००) ज्यप्र० → य । 'वृद्धि: स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । कौरव्यस्यापत्यं = कौरव्यः । 'अत इब्' (६।१।३१) इप्र० । अनेन इञ्लुप् । अत्र ब्राह्मणगोत्रत्वात् आयनिञ् न भवति । क्षत्रियगोत्रवृत्तौ आयनिञ् भवत्येव ।
आर्षात् - [वासिष्ठः पिता-पुत्रः] वसिष्ठस्यापत्यं = वासिष्ठः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[वैश्वामित्रः पिता-पुत्रः] विश्वं मित्रमस्य = विश्वामित्रः । 'ऋषौ विश्वस्य मित्रे' (३।२१७९) दीर्घः । विश्वामित्रस्यापत्यं = वैश्वामित्रः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । वैश्वामित्रस्यापत्यं = वैश्वामित्रः । 'अत इञ्' (६।१।३१) इप्र० । अनेन
इञ्लुप् ।
[आत्रेयः पिता-पुत्रः] अत्रेरपत्यम् = आत्रेयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । आत्रेयस्यापत्यम् = आत्रेयः । 'अत इञ्' (६।१।३१) इप्र० । अनेन इञ्लुप् ।
[औपगवः पिता, औपगविः पत्रः] उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । औपगवस्यापत्यम् = औपगविः । 'अत इब्' (६।१।३१) इप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[कौहडः पिता, कौहडिः पुत्रः] कुहर(ड) । कुहर(ड)स्यापत्यं = कौहरः(ड:) । 'शिवादेरण' (६।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कौहर(ड)स्यापत्यं = कौहरिः(डिः) । 'अत इञ्' (६।१।३१) इप्र० → इ ।
[दाक्षायणः] पूर्ववत् (६।१।१३९) ॥छ।।
अब्राह्मणात् ॥ ६।१।१४१ ॥
[अब्राह्मणात् ] न ब्राह्मणः = अब्राह्मणस्तस्मात् । 'नजत्' (३।२।१२५) न० → अ० ।
[आङ्गः पिता-पुत्रः] अङ्गस्यापत्यं वृद्धम् = आङ्गः । 'पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण्' (६।१।११६) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पितुः आङ्गस्यापत्यं युवा = आङ्गः पुत्रः । 'द्विस्वरादणः' (६।१।१०९) आयनिप्र० । अनेन आयनिग्लुप् । ।
[सौह्मः पिता-पुत्रः] सुझस्यापत्यं वृद्धं = सौमः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सौमस्यापत्यं = सौमः । 'अत इब्' (६।१।३१) इञ्प्र० । अनेन इञ्लुप् ।
ॐ शिवादिगणे - कोहड ।