________________
१०३
।
=
[ चैडीयाः, चैकायनीया वा ] चिह्नस्य चिङ्काया वा अपत्यं = चैङ्किः 'बाह्वादिभ्यो गोत्रे (६ १ ३२) इज्प्र० → इ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृ० ऐ। चैनेरपत्यं युवा चैङ्कायनः । 'यञिञ:' ( ६ ११५४) आयनण्प्र० → आयन । 'अवर्णैवर्णस्य' (७|४|६८) इलुक् । चैङ्कायनस्य इमे छात्राः । अनेन विकल्पेन आयनण्लोपः । 'दौरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् ।
षष्ठाध्यायस्य प्रथमः पादः ॥
[ हौत्रीयाः, हौत्रायणीया वा ] होतृ । होतुरपत्यं = हौत्रः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० औ । 'इवर्णादेरस्वे० ' (१।२।२१) रत्वम् । हौत्रस्यापत्यं युवा = हौत्रायणिः । 'द्विस्वरादण:' ( ६|१|१०९) आयनिज्प्र० आयनि 'अवर्णेवर्णस्य' (७४|६८) अलुक् हौत्रायणेरिमे च्छात्राः = हौत्रीया हौत्रायणीयाः 'दोरीय:' ( ६।३।३२) ईयप्रत्ययविषये अनेन आयनिञ् विकल्पेन लोपः । प्र० जस् ।
=
[ आत्रेयीयाः] अत्रि । अत्रेरपत्यं वृद्धम् आत्रेयः । 'इतोऽनिजः' (६ ११७२) एयण्प्र० एय वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७४६८) इलुक् । आत्रेयस्यापत्यं भारद्वाजो युवा = आत्रेयायणः । 'आत्रेयाद्भारद्वाजे' (६।११५२) आयन आयन वृद्धिः । 'अवर्णेवर्णस्य' (७७४२६८) अलुक् । आत्रेयायणस्य इमे च्छात्राः । 'दोरीय:' ( ६ | ३ | ३२ ) इत्यस्य विषये यूनि लुप्' (६।१।१३७) आयनञ्लुप् । 'दोरीय:' ( ६ | ३ | ३२) ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्र० जस् ||छ ।
डीओ वा ।। ६।१।१३९ ।।
[द्रीञः ] द्विश्वासौ इञ् च द्रीञ् तस्मात् ।
=
[वा ] वा प्रथमा सि ।
प्राग्जितीये स्वर इति निवृत्तम्, अस्य सूत्रस्य करणात् । द्रीञः पञ्चम्यन्तोपादानाव(त्) वा ।
[ औदुम्बरि: औदुम्बरायणो वा ] उदुम्बरस्यापत्यं वृद्धम् । साल्वांश प्रत्यग्रथ कलकूटाऽश्मकादिज्' (६|१|११७) इञ्प्र० इ वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४/६८) अलुक् औदुम्बरेरपत्यं युवा (६।११५४) आयनप्र० । अनेन लोपो विकल्पेन औदुम्बरि इति स्थितम् औदुम्बरायणः ।
=
औदुम्बरायणः । 'यजिजः'
[ दाक्षायणः ] दक्षस्यापत्यं दाक्षि: । 'अत इञ्' (६।१।३१) इ० इ → । वृ० आ दाक्षेरपत्यं = दाक्षायणः । 'यत्रिवः' (६।११५४) आवनणप्र० आयन
'वृद्धिः स्वरेष्वादेज्याति०' (अ४१) 'अवर्णेवर्णस्य' (७४६८) इलुक् ।
। - -
[ आङ्गः पिता-पुत्रः ] अङ्गस्यापत्यम् = आङ्गः पुरु-मगध कलिङ्ग सूरमस 'द्विस्वरादण्' (६|१|११६) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । आङ्गस्यापत्यम् । 'द्विस्वरादण:' (६|१|१०९) आयनिञ्प्र० । 'अब्राह्मणात् ' ( ६ |१| १४१) आयनिक्लुप् । प्रथमा सि 'सो रु' (२२११७२) स० २०
'अब्राह्मणात्' (६|१|१४१ ) इति नित्यं लुपि प्राप्तायां विकल्पार्थं वचनम् ॥ छ
ञिदार्षादणिञोः || ६ | १|१४० ॥
[ ञिदार्षात् ] ञिच्च आर्षश्च = ञिदार्षम्, तस्मात् ।
[ अणिजो ] अण् च इन्च =
अणिजौ तयोः ।
ञित् - [ तैकायनिः पिता-पुत्रः ] तिकस्यापत्यं वृद्धं - पुत्रः ] तिकस्यापत्यं वृद्धं = तैकायनिः । 'तिकादेरायनिञ्' (६।१।१०७) आयनिञ्प्र० → आयनि । 'वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७१४/६८) अलुक् । तैकायनेरपत्यं युवा तैकायनिः । 'ङसोऽपत्ये' (६।१।२८) अणप्र० । अनेन अलुप् प्रथमा सि सो रु' (२११७२) स०१०।