________________
१०२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
वार्ष्यायणीयः । 'सौयामायनि-यामुन्दायनि-वार्ष्यायणेरीयश्च वा' (६।१।१०६) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । वार्ष्यायणीयस्य इमे छात्राः । अनेन ईयलुप् । 'दोरीयः' (६।३।३२) ईयप्र० । प्र० जस् ।
[कापिञ्जलादाः] कपिञ्जलानादत्ते । 'दश्चाऽऽङः' (५।१।७८) डप्र० । कपिजल 'अदंक् भक्षणे' (१०५९) अद् । कपिञ्जलमत्ति । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'ञ्णिति' (४।२।५०) उपान्त्यवृद्धिः आ । कपिञ्जलादस्यापत्यं = कापिञ्जलादिः । 'अत इञ्' (६।१।३१) इप्र० । कापिञ्जलादेरपत्यं युवा = कापिञ्जलाद्यः । 'कुर्वादेर्व्यः' (६।१।१००) ब्यप्र० । कापिञ्जलाद्यस्य इमे छात्राः । ज्यस्य लुपि 'वृद्धेञः' (६।३।२८) अप्र० → अ । प्रथमा जस् ।
अजन्तं प्रकृतिरूपं ततो 'अवर्णेव०' (७४।६८) इति भावार्थः ।
[ग्लौचुकायनाः] ग्लुचुकस्यापत्यं = ग्लुचुकायनिः । 'अदोरायनिः प्रायः' (६।१।११३) आयनिप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । ग्लुचुकायनेरपत्यं युवा = ग्लौचुकायनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ। 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । ग्लौचुकायनस्य इमे छात्राः = ग्लौचुकायनाः । अनेन अणो लुपि आयनि अन्तं संपन्नं शेषे अण्प्र० → अ । वृद्धिः औ । प्रथमा जस् ।
[पाण्टाहृतमयम् ] पण्टाहृतस्यापत्यं = पाण्टाहतिः । 'अत इब्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । पाण्टाहृतेरपत्यं युवा = पाण्टाहृतः । 'पाण्टाहृति-मिमताण्णश्च' (६।१।१०४) णप्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । पाण्टाहृतादागतम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय । सि-अम् ।
[वाायणीयरूप्यम् ] वृषस्यापत्यं = वार्ष्यायणिः । 'दगु-कोशल-कार-च्छाग-वृषाद् यादिः' (६।१।१०८) आयनिप्र० यकारादिः । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आर् । वार्ष्यायणेरपत्यं युवा = वार्ष्यायणीयः । 'सौयामायनि-यामुन्दायनि०' (६।१।१०६) ईयप्र० । 'समानानां तेन०' (१।२।१) दीर्घः । वार्ष्यायणीयादागतं = वार्ष्यायणीयरूप्यम् । 'नृ-हेतुभ्यो०' (६।३।१५६) रूप्यप्र० । सि-अम् ।
[भागवित्तिकीयम् ] भगवित्तस्यापत्यं = भागवित्तिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । भागवित्तेरपत्यं युवा = भागवित्तिकः । 'भागवित्ति-तार्णविन्दवाऽऽकशापेयान्निन्दायामिकण वा' (६।१।१०५) इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । वृद्धिः । भागवित्तिकाय हितं = भागवित्तिकीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । ('तस्मै हिते' (७१।३५) ईयप्र०) । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
वायनणायनिजोः ॥ ६११३८ ।
[वा] वा प्रथमा सि । [आयनणायनिजोः] आयनण् च आयनिञ् च = आयनणायनिजौ, तयोः ।।
[गार्गीयाः, गाायणीया वा] गर्गस्यापत्यं वृद्धं = गार्ग्य: । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । गार्ग्यस्यापत्यं युवा = गाायणः । 'यजिञः' (६।११५४) आयनणप्र० → आयन । 'वृद्धि: स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गाायणस्य इमे छात्राः । अनेन विकल्पेन आयनण्लोपः । 'दोरीयः' (६।३।३२) ईयप्र० । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलोपः ।