________________
षष्ठाध्यायस्य प्रथमः पादः ।।
१०१
[गर्गभार्गविका] गर्गस्यापत्यानि वृद्धानि । 'गर्गादेर्यन्' (६।१।४२) यप्र० । 'यज्ञोऽश्यापर्णान्त०' (६।१।१२६) यञ्लुप् । भृगोरपत्यानि वृद्धानि । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । गर्गाणां वृद्धानां-भृगूणां वृद्धानां यूनां च विवाहः = गर्गभार्गविका । 'विवाहे द्वन्द्वादकल्' (६।३।१६३) अकल्प्र० → अक । 'भृग्वङ्गिरस्-कुत्स०' (६।१।१२८) अण्लोपप्राप्तिर्निषिध्यते 'गर्ग-भार्गविका' (६।१।१३६) इत्यनेन ।
गर्गभार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनि वा प्रतिषेधो न भवति ।
[कौवलम्] कुवल 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । कुवल्याः फलं = कुवलम् । 'हेमादिभ्योऽञ्' (६।२।४५) अप्र० । 'फले' (६।२।५८) अञ्लुप् । 'झ्यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) ङीनिवृत्तिः । कुवलस्य इदं = कौवलम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
गर्गभार्गविका ॥ ६।१।१३६ ॥ [गर्गभार्गविका] गर्गभार्गविका प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् ।
[गर्गभार्गविका] गर्गस्यापत्यानि वृद्धानि = गर्गाः । 'गर्गादेर्य' (६।११४२) यप्र० । 'यत्रोऽश्यापर्णान्त०' (६।१।१२६) यञ्लोपः । भृगोरपत्यानि = भार्गवः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धि: स्वरे०' (७।४।१) वृ० आर् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । गर्गाणां वृद्धानां - भृगूणां च वृद्धानां यूनां च विवाहः = गर्गभार्गविका । 'विवाहे द्वन्द्वादकल्' (६।३।१६३) अकल्प्र० → अक । अनेन 'भृग्वङ्गिर०' (६।१।१२८) इत्यस्याणलोपप्राप्तिर्निषिध्यते निपातनात् । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ० ॥छ।।
यूनि लुप् ॥ ६।१।१३७ ।। [यूनि] युवन् सप्तमी ङि । 'श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उ:' (२।१।१०६) व० → उ० । 'समानानां तेन०' (१।२।१) दीर्घः ।
[ लुप्] लुप् प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् ।।
[पाण्टाहृताः] पण्ट 'हंग् हरणे' (८८५) हृ, आङ्पूर्व० । पण्टेनाहियते स्म = पण्टाहृतः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । पण्टाहृतस्यापत्यं वृद्धं = पाण्टाहृतिः । 'अत इञ्' (६।१।३१) इप्र० । पाण्टाहृतेरपत्यं युवा सौवीरगोत्रः । 'पाण्टाहृति-मिमताण्णश्च' (६।१।१०४) णप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । पाण्टाहतस्य इमे छात्राः = पाण्टाहृताः । 'दोरीयः' (६।३।३२) इत्यस्य विषये 'वृद्धेञः' (६।३।२८) इति अप्र० । अनेन णलोपः । प्र० जस् ।
[भागवित्ताः] भगवित्तस्यापत्यं = भागवित्तिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । भागवित्तेरपत्यं युवा = भागवित्तिकः । 'भागवित्ति-तार्णविन्दवा
पेयान्निन्दायामिकण् वा' (६।१।१०५) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । भागवित्ताः । 'वृद्धेञः' (६।३।२८) अप्र० । अनेन इकण्लोपः । प्र० जस् ।
[वाायणीयाः] वृष । वृषस्यापत्यं = वार्ष्यायणिः । 'दगु-कोशल-कार-च्छाग-वृषाद् यादिः' (६।१।१०८) यकारादिरायनिप्र० → यायनि । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आर् । वार्ष्यायणेरपत्यं युवा =